________________ 108 जैनगीता। ज्ञानक्रियोभयगताः पुरुषेषु भङ्गा, यत्ते नरेषु भजनापदतो विभातः। ज्ञानं लभेत पुरुषः प्रचुराघभेत्ता, बन्धोऽपि जातु नहि प्रन्थिपरो हि तस्य // 47 // नैति क्रियाकृतिमसौ मतिरस्य तद्गा, तेनायमेति पदमाराधनया प्रभूतम् / जैनी क्रियां प्रविदधान उपैति मार्ग, योग्यत्वमस्य न तु सको नियमात्तमेति // 48 // भव्येतराः केचिदिमां समेता, न तेऽत्र भव्या अपि मार्गहीनाः / आराधना तस्य भवेद्धि न्यूना, मार्गेण हीना इति दुष्टताङ्काः // 49 // ज्ञानं क्रियां चापि समेत्य युग्मं, सम्यक्त्वचारित्रयुजः पुरुषाः / मार्ग जिनेशस्य यथास्थितं ते, मोक्षं लघुद्यान्ति विशुद्धभावाः // 50 // जैने कुले ये जनिमादधुस्ते, यावन्न तत्त्वेतरभाव विज्ञाः वृद्धानुवृत्त्या क्रियया विदा च, वृतास्तथाप्यत्र न ते प्रमाणम् // 51 // क्रियायुतो ज्ञानपदार्थशून्यो, निवेदितोऽरण्यगतोऽक्षिहीनः / नियुक्तिकारः प्रसभं द्वयोस्तु, समत्वमाश्रित्य युगादराय // 52 // द्वयोः परं साध्यमपेक्ष्य तैर्हि, चारित्रहीनः कथितः खरैः समः / ज्ञानं तु दीपस्तुलितं प्रधान, ज्ञानक्रियाभ्यां सहितोऽहपूर्गः // 53 // समस्तकर्मक्षयतो विमुक्तिः, श्रेणिप्रभावात्स भवेन्न सा तु / कैवल्यहीने शिवसाधनं तद्, ज्ञानं सदा श्रेयमिदं तु भव्यैः // 54 //