________________ जैनगीता। 107 तत्तत्रागतिरस्य मुग्धहसनी सिद्धिर्न काचित्पराप्यर्थोऽस्य सकलप्रयास इह चाऽज्ञानिक्रियायां समः // 41 // प्रागुक्तं श्रुतधारकैः श्रुतिपदं यः संयतः संयतः, गत्यां स्थान उदाहृतौ शयविधौ वाच्यासनेषूद्यतः / बध्नात्येष (न) पापमण्वपि यतोऽसौ रक्षकः प्राणिनां, चेत्प्राणान्तमिताः परेऽसव इदं पापाय नो तादृशे // 42 // एवं नो विधितत्परोऽपरमुनिः साध्यं विहायाऽऽत्मना, कुर्यात्ताः परमप्रमादसहिता हिंस्यान्न जन्माश्रयान् / जात्वेषोऽघवितानसञ्चितिकरो रक्षाविधौ न यत, एष यत्नपरः परेऽत्र न मृताः स्वायुःसमर्था यतः // 43 // श्रुत्वैवं वच आदृतिप्रचुरताभागाह शिष्यः परो, नो ज्ञाने शिवकाक्षिणा मतिरतः कार्या फलेनोज्झिता / आहात्रान्तिषदां सदा हितविधावालस्यलेशोज्झितो, यो जीवेतरसार्थबोधरहितो रक्षोद्यतः किं भवेत् ? // 44 // तज्जीवेतरवस्तुवृन्दविषयं ज्ञानं परं धारयन् , पुण्यापुण्यविधानबोधजनितं मुक्त्यन्तसौख्यं श्रयेत् / तत्प्रथमं शिवधाममार्गनिपुणैर्ज्ञानं परश्रेयसे, . ग्राह्यं यज्जिनशासनं द्वययुतं ख्यात्यव्ययाप्तिप्रदम् // 45 // भीजैनशासनमतेऽत्र नराश्चतुर्धा, ज्ञानं तु केवलमुपासतमुज्झितेर्यम् / हीनां विदा पर उशन्तिं परां प्रवृत्ति, द्वौ चापरौ गुणविशेषतया द्विकं तु, नैतेषु कश्चन नरो जिनमार्गमेतः / / 4 / /