________________ 106 जैनगीता। बिम्बानां नव्यजीर्णप्रकरणनिपुणा उद्यमं सन्दधन्ते, सधे जैनेशनम्ये बहुविधविनयं सन्नयन्ते सुधर्माः (बोधाः)॥३६ सर्वोऽप्येष प्रभावो मुनिवरसजुषः सङ्घसार्थस्य तीव्रो, भेदैर्युक्तश्चतुर्भिः श्रमणमुखगतैः पुस्तकाधारजीवैः / व्याख्यानं सक्रियायुक् प्रवितरणचणैः शासनस्तम्भरूपैयुक्तस्य पुस्तभक्त्या त्रिकरणविधया संश्रितस्यैव नूनम् // 37 शास्त्राणां विहिता वरा सुरचना पुस्तेषु विज्ञोत्तमैः , सा चेदाधमियति तर्हि जिनपस्याऽभूत्परं बाधितम् / सर्वं यद्धरति प्रकृष्टमनिशं सर्वत्रगं सद्यशः, सूत्राणां मितबाधने परममुष्मिन् धर्मवार्ता वृथा // 38 ज्ञानं सर्वमतानुगैरभिमतं धर्माहतौ सारभृज, जैना अप्यभिमन्वते परमिदं तत्त्वाशया नो परम् / जैना यच्छिवसाधनं परतरं मन्वन्त उद्धारकं, ज्ञानं सक्रियया युतं न विकलं चैकं ह्यपीप्स्यप्रदम् // 36 रोगी नैव निदानरूपभिषजां रोगस्य बोधाद्भवेदल्पेनापि गदेन मुक्ततनुकश्चेन्नागदानां क्रिया / वार्धेस्तारकतां श्रितोऽपि पदधीश्वेत्तारणे नोद्यतः , पारं नो समियर्त्यसौ नदनदीष्वेवं क्रियाऽऽवश्यिकी // 40 युक्तोऽपि क्रियया विचित्रविधया रत्नाकरेष्वागतश्वेन्नासाववबुध्यतेऽत्र पतितं सारं गतार्घ च वा /