________________ जैनगोता। सिद्धर्षेः प्रतिबोधनाय गुरुणा रक्तस्य बोद्धे मते, न्यस्ता सुन्दरपुस्तिकाऽस्य विमले जैनेन्द्रधर्मे मतिः। पूज्य श्रीहरिभद्रसूरिरचिताऽस्याऽऽलोकनेऽजायत ॥३शा विधोदिता जिनागमा अनन्तर-परम्पराऽऽत्मस्वरूपभेदतः पुनर्द्विधाऽर्थसूत्रतः / द्विधाऽपि वर्ततेऽधुना परम्पराभिधानको, जिनेशशासने मुनेः परम्पराविहानितः / सुपुस्तकाश्रितस्ततः स एव पूज्यतामिह // 32 // मत्वैवं शासनस्यानुपमहितकरं पुस्तकं तत्पुरोगै के कोशाः कृताः सत्पुरुषवचनतः शासनोत्तेजनाय / नेके श्राद्धोत्तमास्तु विविधविधियुतान्याचरन्ति प्रकामं, तत्तद्वैचित्र्यभानु तप उदयकृते यापने तद्विलेखान् // 33 // यथा जिनेशभक्तितः बहुप्रकारिकार्चना, जिनेश्वरेषु पूजने तदीयबिम्बसंहतेः / तथा जिनेशशास्त्रवृन्दभक्तिभारिता जनाः, सुशास्त्रबोधिनस्तदाश्रयाँश्च पूजयन्ति वै // 343 अतः श्रुते समीरितं त्रिधाऽऽवृतेर्विबन्धनं, बाधनाच्च बोधि-बोध-तद्गताऽङ्गसंहतेः / श्वयं तु चेत्समीहते प्रकाममात्मकाम्यया, विषूद्यम तदावृतेः क्रियात् सुपुस्तकान्वयात 35) चैत्यानां नूतनानां वितनुत उदितां सक्रियां यद्धनाढ्या, उद्धारं प्राक्तनानां विविधपुरयुजां तन्वते भक्तिनम्राः /