________________ 104 जैनगीता। अन्त्याऽऽवर्तप्रमिते (माणे) भवगतिगमने शेष आप्नोति मार्ग, भव्यो जीवः प्रभावात् सुकृतनियतितो जातकालात् प्रधानात् / तत्रानाभोगवान् सन् प्रचरति जिनपोद्भाविते यद्वदन्धो, सद्भाग्यो भव्यजीवश्चरति गतपथो सार्वदेशितमार्गे // 24 // तद्वज्जीवोऽपि मार्गे यदि व्रजति पथि ज्ञानहीनस्तदापि, देवाद्यर्चादिवत्सोऽनुगतविमलभा लेखयेत् पुस्तकानि / * अभ्याशेषशिष्टद्रविणनिचयतः सद्गुरुभ्यः समl, सत्याप्य श्रोतृकार्य गुरुवचनसुधापानमादत्त उच्चैः // 25 // देवो गुरुर्धर्मवरश्च बोध्या-न्येषां समासाद्य ऋतां प्रमाणाम् / व्याख्यात्रधीनानि यथा श्रुतानि, विशेषतोऽमूनि तथाङ्कितानि // 26 // तथापि बाहुल्यमनेहसीय-प्रभावतो बुद्धिधनस्य विस्मृतेः / कुवादिनां कल्पितपाठवादिनां, विलोपकानां च न विद्यतेऽन्तः // 27 // एतादृशेऽनेहसि मार्गरक्ताः, कथं श्रयेयुः शिवशुद्धमार्गे / अतो विसंवादहरानऽभिन्न-रूपान् सुपुस्तान् भविनोऽर्चयन्तु त्रिभिर्विशेषकम् // 29 // निशम्य पैशाचिकवृत्तमार्त-स्नुषाकथां च तिनः स्वशुद्धथै / क्रियातिरिक्ते समये विदध्युः, स्वाध्याय एषोऽपि सुपुस्तकाश्रितः / / 29 // एवं च ये स्युः सततं समुद्यताः, स्वाध्याययुक्ते वरधर्म्यचित्ते / सुपुस्तकानां धरणे प्रवीणा, ध्यानेऽन्यथा बाध उदियात् प्रचण्डः // 30 // तीर्थाधारतथा सुपुस्तनिचयस्तेनैव मल्लप्रभोदेव्यानीत उपाय आगमविधौ पुस्तस्य वर्षावधिः /