________________ . जैनगीता / / मेधा यदा हीनतरा मुनीनां, कोशाय नियुक्तिमुखग्रहोऽभूत् / हानिर्यदा तत्र बभूव भूरि-स्तदा समग्रस्य बभूव सङ्ग्रहः // 16 / / यथा ह्यचेलत्वक्षमे हि वस्त्रं, परिग्रहः स्यान्मुनितापदाङ्कसू / परेषु यत्संयमसाध्यता स्यात् , तेषां ग्रहाच्चीवरभाजनादेः // 17 / / अतोऽधुना पुस्तकसङ्ग्रहो यः , स एव बोधं जनयत्यनूनम् / धरन्ति चेत्तानि न पुस्तकानि, हास्यादिसक्ता मुनयो भवेयुः) वन्ति // 18 // ततोऽधुना ज्ञानगुणेप्सुना सदा, कार्य द्वयं ज्ञानपदार्हणायाम् / आराधना ज्ञानपदस्य जाप-ध्यानादिभिः पञ्चपदानि लात्वा // 19 / / अन्त्यं मुनीभ्योऽमलपुस्तकानां, विलेखनामर्चनमारचय्य / समर्पणं वाचनमन्ययुक्ति-ईयोपकाराय सदा प्रयोज्या // 20 // न दर्शनं शास्त्रविहीनमार्ग, शास्त्राणि सर्वाणि समाश्रितानि / सुपुस्तकालिं गणिना वरेण, ज्ञातुं स्वकान्यानि निदेशनानि // 21 // धार्याणि निश्शेषमताश्रितानि, तत्कालकालान्तरपुस्तकानि / गणी भवेन्नेतरथा स्वकान्य-मतोद्ग्रहे शक्तिधरः प्रकाशम् // 22 // युग्मम् यावत्तीर्थं जिनस्य प्रचलति भुवने तावदेषोऽपि सङ्घो, यावच्चाऽसौ जनेषु प्रकटतिमिरहा तावदर्हच्छतानाम् / तत्त्वानां सप्तकस्यानवमपथधृतिप्राप्तिहेतुत्वमाप्यं, तानि म्युः पुस्तकानां निचयमनुसृतान्यर्चनीयानि भव्यैः / / 23 / /