________________ 102 जैनगीता। गीतार्थनिश्रामभिहत्य ये स्युः , क्रियापराः संयमिनः प्रभूताः / तेष्वंश एकोऽपि न संयमस्य, ज्ञात्वेदमार्यः श्रुतंसाधनो भवेत् // 6 // भेदाः पञ्च ख्यातिमन्तो बुधेषु, ज्ञाने गीताः शास्त्रकारैर्हिताय / मत्याद्यास्तु व्याहृतिस्तस्य शास्त्रे, कालाद्येषु गीयते शास्त्रनिष्ठा // 7 // जैनैः पर्वं राध्यते ज्ञानसत्कं, पञ्चम्यां वै शुक्लपक्षोपगायाम् / तत्र स्थाप्यं शास्त्रवृन्दं पुरस्तात् , तस्याग्रे श्रीसङ्घ आप्नोति धाम // 8 // वर्षाऋतौ स्याद्वरपुस्तकाना-मार्द्रत्व तद्धेतु विकुत्थनादि / तत्सारणादावधिकः प्रभावो, मत्वा श्रुवाराधनमिष्यतेऽत्र // 9 // तदाश्रया कार्तिकपञ्चमीयं, मता जिनेशानुगतैः समस्तैः / पर्यायभेदेन मता ततोऽसौ, सौभाग्ययुक्ता श्रुतपञ्चमी वा // 10 // चिरन्तनानां यतिनां न काचित् , पुस्ताद्यपेक्षा स्मृतिपाटवानाम् / . तथापि तत्रामलशास्त्रपद्धति - गीतार्थताहीनजनोपयोगिनी // 11 // देवेन्द्रयुक्ताद्गणिनः पुरस्तादा-ऽऽसन्मुनीनां वचनानि मानम् / परं परस्तात् स्मृतितानवानां, पुस्तानि सर्वेभ्य उदारमानम् // 12 // ततोऽधुना नैव वचांसि मानं, न बिभ्रतीष्टं शुचिपुस्तकानि / महामुनीनां गुणगह्वराणां, नासम्भवी यत्स्मृतिलोप उग्रः // 13 // प्रवक्तुमेतद् यदि नोचितं न, प्रवच्मिनिःशेषमिदं हि शासनम् / लेखान् सुपुस्तप्रथितान् विहाया-परेण नैव ध्रियते कथञ्चित् // 14 // यदा स्मृतीहाधरणादिमेधा-प्राचुर्ययुक्ता मुनयः प्रशस्ताः / तेषां तदा पुस्तकसङ्ग्रहम्य, परिग्रहः कारणमेव नान्यत् // 15 //