________________ जैनगीता। 101 स्वयं संसाराब्धेस्तरणनिपुणस्तारयति वै, गता धर्मारामं न भवति विदुषां स्वान्यविभिदा // 51 // इति पञ्चविंशोऽध्यायः // / षड्विंशोऽध्यायः / ( ज्ञानाधिकारः) जैनोऽसौ नियतं तनोति मतिमान् यो ज्ञानकायं सदा, जैनं यद् भुवि शासनं विजयते हत्वान्यतीर्थप्रभाम् / सोऽन? महिमा प्रचण्डतरको ज्ञानप्रभावोत्थितः, प्राप्तेष्वन्धनरेषु यद्बहुतरेष्वीक्षाधरः श्लाध्यते // 1 // ज्ञानेन जातं भुवि जैनतीर्थं, ज्ञानेन तत्स्थापितमर्हता पुनः / ज्ञानप्रवृत्तिं भुवि जायमाना-मपेक्ष्य तीर्थ जगतीह वर्तते // 2 // ज्ञानस्थैप महः परात्परतरो, जागर्त्यनूनः परस्तीर्थेशां परिषत्सु यच्छ्रतधराश्छद्मस्थभावान्विताः / गच्छेशाः श्रुतकेवला निखिलविवृन्दात् पुरः स्थानगास्तानादौ च नमस्करोति निखिलः शेषः सभासज्जनः // 3 // मुनीश्वराणां गणानायकत्वे, स्थाप्ये मता या निखिला गुणालिः / सर्वाऽपि सा युक्ततमाऽपवादैः, परं श्रुताऽऽधारगुणे त्वसौ न / / 4 / / क्रियाविहीनेऽपि मुनौ जनानां, मिथ्यात्वभावो न तथाकृतिश्चेत् / गीतार्थतायां सुमुनौ (च) तद्वद्, भवेदयं चेच्छ्रतधारको न // 5 //