________________ 100 जैनगीता। संसारेऽधमवृत्तयो नरकगा दुःखेन बोधि परे, जन्मन्यासुरभावनोद्यतहृदो नैव शिवश्रीश्रयः // 45 // युग्मम् श्रत्वा फलं जिनपतिद्रविणे प्रवृद्धे, रक्षागतं न मनुजाः शुभबोधशून्याः / पूजादिकार्यविधिषु द्रविणं व्ययन्ते, ये तेऽपि नैव विधिमार्गपराः समेषु / चैत्येषु बिम्बसहितेषु यथार्हमाधाः (मय॑म् ) // 46 // देशप्रदेशेषु परापरेषु, बिम्बानि चैत्यानि पुरातनानि / दर्श दर्श भव्यजीवा अनेके-ऽवापुर्बोधिं तभृतश्च स्थिरत्वम् / / 47 // प्रमादतोऽकारि सुसंयतेना-ऽकृत्यं कदाचिन्न च तत्परेभ्यः / गीतार्थसंविग्नमुनिभ्य आशु, निवेद्य शोध्यं परतोऽपि जातु // 48 // ततः प्रत्ने चैत्ये भवति जिनपतेर्या प्रतिकृतिस्तदने शास्त्रेण स्वयमपि समालोचयति सः / गीतार्थः शोधीनां सकलशुचिकरान् वेत्ति सुविधीन् , अकृत्यं निर्मायं शुचितरमनाः शुध्यति ततः // 49 // पुराणानामेवं जिनपतिगृहाणां प्रतिमया, जिनस्यात्यानां द्राग् महिमप्रततिं वीक्ष्य सुधियः / सदा कुर्युस्तूत्थां निरघमतमुदा पालनयुतां, लभन्ते ते प्रेत्याशुभमतततिं पापपदिकां / निहत्याऽईच्छास्त्रप्रथितमहिमानं शुचिपदम् / इति वा // 50 // भवेद् जैनोऽसौ यः प्रतिनियतसामर्थ्यसहितो, विधेयाच्चैत्यानां विविधघटनां बिम्बसजुषाम् / / // 50 //