________________ जैनगीता। द्रव्यं जिनस्य न भवेदपरिग्रहस्य, भक्त्यै गृहीतममलेन हृदा जिनस्य / वृद्धौ जिनेशयजनोन्नतिकेऽस्य भावी, सच्छासनस्य भुवि वर्तयिता न चित्रम् // 4 // चैत्यं बिम्बं जिनस्य प्रभवति सकले सम्भेदे हिताय, / बाला वृद्धा युवानः सुकृतमतिधराः स्वीययोषाभिरक्ताः / जात्या वंशेन देशैः प्रचुरनिचयिनोऽबाधधामाभिलाषाः , लाभं बोधेलभन्ते जिनपतिपठितं सुस्थितं तद्धि दृष्ट्वा // 41 // तत्सर्वं रम्यतायां जिन-जिनगृहयोः सुस्थितत्वोद्भवायां, सा स्यात्तद् द्रव्यसिद्धेरिति सुकृतभरा वर्धने बद्धकक्षाः / / न्यायेनाऽऽरम्भशून्या गतविषयवधा धर्ममात्रार्थवाञ्छाः, सर्वेषां मुक्तिकाङ्क्षा जिनपदमतुलं नाद्भुतं यद्धरन्ति // 42 // ये सत्वा नहि तादृशं धनबलं युक्तिप्रयोगं कलां, बुध्यन्ते प्रबलं च नो कथमपि वृद्धेः परं कारणम् / देवस्वस्य तदा नरास्तदवने स्युः सोद्यमा मुक्तये, __ सर्वेपामुपकारकस्य विधिना मुक्तिं लभेरन् लघु // 43 // ये तु प्रोत्कटमोहराजजनितप्राबल्यभाजो नरा, मिथ्यात्वाऽऽकुलचेतसो जिनधनं ताहक प्रभावान्वितम् / नो वृद्धिं न च रक्षणं प्रतिपदं नेतु प्रवृत्ताऽऽदराः, ___भक्षन्ति प्रमदाः परैश्च निहते नो वारितुं सादराः // 44 // ते धर्मस्य विवर्धनं स्थितियुतं निर्णाशयन्तीतरे, तन्मोहं समुपायं दुर्धरतरं प्राप्स्यन्ति दुःखान्विताः /