________________ जैनगीता। / तृतीयोऽध्यायः / (आचार्याधिकारः) वन्देताऽऽचार्यवर्यान् सुगुरुपदपरान् मोक्षमार्गकलीनांतीर्थेशैस्तुल्यरूपान् प्रवचनशकटोद्वाहकान् गच्छनाथान् / सूत्रार्थादेशकर्तृन प्रवरपटुमतीन् वादिवादकतानान् , नित्यं तीर्थस्य सारां विदधत उदयाकाङ्क्षुकान् यः स जैनः // 1 // गते तीर्थनाथे समस्तज्ञसार्थे, शिवं यो वहेत् तीर्थभारं नितान्तम् / यथाऽस्तंगते वासरेशे निशेशे, प्रदीपो जगत्यां पदार्थप्रभासी // 2 // जिना जीवितान्तं वहन्त्येव तीर्थं, सुतीर्थं तथाप्येत इहोदिता नो / अघोद्घातकास्तीर्थरूपा मुनीशा, मताः शासनं यावदेते तदीशाः // 3 // जिनेशः शिवाध्वा समस्ताङ्गिसाम्ने, सभायाः पुरः स्थापितो दोषमुक्तः / मुनीनां शुचिश्रावकाणां परं.तं, सदा सूरिवर्या वहन्ते प्रकामम् // 4 // कृतार्थो यथा सार्थवाहो जनानां, सुतप्त्याऽध्वनि प्राप्तविबाधनानाम् / तथा सूरिवर्याः सुदृष्टिप्रधानान् , निवार्याऽऽपदो मोक्षमार्गं नयन्ति / / 5 / / यथा तीर्थनाथान् समाराध्य सद्-गवश्यं भवे तीर्थनाथस्तृतीये / तथा सूरिवर्यान् समाराध्य जन्तु-स्तृतीये भवे तीर्थनाथत्वभाक् स्यात् / / जिनेशा भबेयुर्यथाऽऽशातिता द्राग् , भवानन्त्यमिथ्यात्वदानैकदक्षाः / मुनीशास्तथैवेत्यवजानते नो, जिनेनाध्वमन्तार इहाऽमलाभाः / / 7 / / परं सूत्रमल्पं यदाऽसौ विलुम्पेद्, भवानन्यमेतीह हित्वा सुदृष्टिम् / यदा तु प्रकाशेत सम्यक्तया तत् , स शास्त्रेण गीतः सुसूरिर्वरिष्ठः।।८॥ सुदीक्षां समस्तैन उद्घातदक्षां, गृहीत्वा गुरोः पापही सुशिक्षाम् / समभ्यस्य सूत्रार्थयुग्मं समेत्य, झुपस्थापनां सद्वतयापनी प्राग / / 9 / /