________________ जैनगीता। . द्वादशाब्दी गुरूपास्ते-रधीत्याऽऽगमसञ्चयम् / कालं तावन्तमेवार्थ, भवेत् सूत्रार्थयुग्मवित् .. // 10 // विहारयेत् सूरिवरस्तमार्ण्य, साधोयुगं देशविदेशभागम् / मुण्डेत् प्रतीच्छेच्च बहून् मुनीन् स, विद्याच्च भाषां विविधां जनानाम् // 11 // जिनेशजन्मघ्रतकेवलान्त-कृभूमिमेक्ष्याऽमलदर्शनाढ्यः / ज्ञात्वा पदार्ह मुनिनाथवर्याः, पदेऽमिसिञ्चन्ति सहानगारैः // 12 // सबालवृद्धे गण ईश एष, द्रव्यैर्गुणैः सत्परिवर्त्तनैः सह / पाल्येत तेनापि जिनानुकारं, तोष्येत तेनार्थपदानि दत्त्वा // 13 // सूरीन्द्रपट्टस्य यथावदादृतौ, भवेज्जिनः सज्जनुषां तृतीये / पश्चाऽतिशेषा मुनिसार्थपेऽस्मिन् , स्वप्नेऽपि नेमेऽन्यमुनीश्वराणाम्।।१४।। आत्मर्णमोक्षं परिवाचयन् गणं, यथा विधत्ते सुगुणांस्तु शिष्यान् / निष्पाद्य पट्टे प्रतिभासमानान् , विधाय कार्योऽन्तगतः समाधिः।।१५।। एवंविधान् गणधरान् विविधप्रकृत्या, भक्त्या समर्च्य गुणगाननिबद्धलक्षः / आज्ञाधरो भवति दासनिकृष्टरूपो, जैनः स एव जिनशास्त्रधरैः प्रगीतः // 16 / / इति तृतीयोऽध्यायः।