________________ जैनगीता। विभिद्य मिथ्यात्वमनन्तमूलं, द्वितीयभावेन भवेत्तृतीये / सम्यक्त्वसम्पत्तिसहो लभेता-ऽऽस्तिक्यादियुक्तं हि गुणे तुरीये।। || जीवादिमर्थं मनुते कथश्चि-दस्तित्वनित्यत्वगुणं प्रमेयम् / तथैव कर्ताऽनुभवी भवाब्धौ, स्वकर्मणां सद्व्यवहारदृष्टया // 11 // भव्यत्वपाके शिवसाधनानि, सद्दर्शनज्ञानयमानुपैति / समग्रकर्मक्षयजातशुद्धि-निर्वाणमेति प्रगुणाऽऽत्मभावः // 12 // आस्तिक्यमेष्वेत्य द्विधा दयायो, प्रवृत्तवीर्यो भवभावभीरुः / सनातने धाम्नि सदा रतः स, कषायवान्नैव जिनादितत्त्वे // 13 // महाव्रताकाङ्क्ष उदग्रवीर्या-भावाद् भवेत् कोऽपि गृहिव्रतोत्कः। . अभ्यस्तशिक्षः श्रमणत्वमेति, विहाय हिंसादिभवाऽऽश्रवान् सः॥१४॥ मोहक्षयायोद्यत आप्तवीर्य-श्रेण्या समस्तं विनिकाष्य मोहम् / स केवलीभूय सयोगभावो, जिनोऽपि कश्चिद् भवतीह जीवः // 15 // तीर्थ विधायैति स चापलेश्य-मयोगमेषोऽपि लभेत सिद्धिम् / भेदा यतः पञ्चदश प्रसिद्धा, अनन्तरं सिद्धिपदं गतेषु // 16 // एवं दुर्दान्तकर्मक्षपणकविधया / लब्धसिद्धस्वभावा, . मोच्छिन्ना ज्ञानशून्या न च भवजनना निग्रहानुग्रहाकाः / शश्वत्स्थानस्थिताश्चित्सुखततिकलिता भव्यजीवावलम्बा, ये सिद्धास्तान् सदा यो मनुत उदययुग देवभावेन जैनः // 16 / / इति द्वितीयोऽध्यायः /