________________ जैनगीता। Ait / द्वितीयोऽध्यायः / (सिद्धाधिकारः ) सिद्धान् सिद्धगुणान् समग्रजगतः प्रान्तस्थितान् सादिमाञ् शश्वत्स्थानगतान् निहत्य निखिलान् संसारपातप्रदान् / मूलात् कर्मचयानिजात्मगुणतो लब्ध्वाऽमितां सम्पदं, दृष्टान्तैकभुवः शिवाध्ववहने वन्देत देवत्वधीः . // 1 // समस्तजीवा अमितादिकाला-निगोदवासे व्यवहारवर्जिते / .. कश्चित्ततो याति यदानुकूला, सलोकभावा भवितव्यताऽऽत्मनः // 2 // भूम्यादिभावान् पृथगात्मसंस्थान, प्राप्तो भवेत् स व्यवहारभाक् स्यात् / तत्राऽप्यनन्तान् परिवर्तकालान् , बालो भवेत् क्षुद्रभवाभिनन्दी // 3 // पुण्यादिहेतुष्वपि कालहेतोः, प्रधानभावाचरमं स यायात् / आवर्तमङ्गी शिवधामसङ्गं, तदैव नान्यत्र पुनः स्पृहेत // 4 // स्वतोऽन्यतो वा यदि भव्यभावः, पक्को भवेन्मार्गमनुश्रयन् यः / सदन्धवृत्तेरनुकारभावं, भवेत् परं मोहमबन्धयन् सः // 5 // सदागमाऽऽश्लिष्टमनःप्रबन्धो, मान्याजिनादीन् मनुते प्रसन्नः / प्रशंसको नैव भवाश्रितानां, विरक्तचित्तो भवभावभीतेः // 6 // जिनेश्वराज्ञामविदन् श्रयेत स, सेवेत देवान् सुगुरून सुधर्मान् / भ्रष्टोऽप्यरण्ये ननु याति मार्ग, सुदेशकोक्तेः शुभभाविजीवनः // 7 // मार्गोन्मुखः सन्मतिरुज्झिताघो, यदाऽर्धमावर्तमशोषयत् सः / वनोपमाऽपूर्वमपूर्वमाप्य, प्रन्थि विभिन्द्यात् खलु पापराशेः / / 8 / / विद्धं यथा मौक्तिकमेत्य पकं, नाविद्धमेवं क्षतपापराशिः / कदापि नेहग भविंता निगोदं, गतोऽपि भेदस्य परात् प्रभावात् / / 9 / /