________________ अष्टमाध्याये चतुर्थपादः। * निर्दिष्टाः समाधयः। अतः परं समाधिसन्निश्रिता गुना (णा) निर्दिश्यन्ते। अप्रमाना (णा)नि चत्वारि मैत्री करुणा मुदितोपेक्षा च।' अप्रमाना (णाः), सत्त्वाधिष्ठानप्रवृत्तेरप्रमान (ण)पुण्यनिवर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च / अथाप्रमाणानां कः स्वभावः ? [588] चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा। - मुदिता प्रोतिरेकेषामुपेक्षाऽलोभ इष्यते // अद्वेषस्वभावा मैत्री। तथा करुणा अद्वेषस्वभावा। कस्तङ्केतयोरप्रमान (ण)योविशेषः ? * उभयोरद्वेषात्मकत्वेऽपि मैत्री सत्त्वापरित्यागवतिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च / करुणा ताडनपीड़नाभिप्रायवर्तिणो (नो) द्वेषस्य प्रतिपक्षो देन्याकारप्रवत्ता च। इत्यस्ति विशेषः। "सोमनस्यस्वभावा' मुदिता"३ इति पौराणाः। उपेक्षाप्यलोभात्मकंव। एषोऽप्रमाणानां स्वभावः। कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ?' 1 चतस्सो अप्पमझायो। इधावुसो भिक्खु मेत्तासहगतेन चेतसा एक दिसं... सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमानेन अवेरेन अव्यापज्झेन फरित्वा विहरति / करुणासहगतेन चेतसा मुदितासहगतेन चेतसा' 'उपेक्खासहगतेन चेतसाविहरति / Digha. XXXIII. 1. 11. See Vbh. p. 272-282; Dhs A. III. 399-416; Vm. IX. 1-124; rogasatra, I. 33, III. 23. 2 Cf. अप्रमाणानि चत्वारि व्यापादादिविपक्षतः। . मैत्र्यद्वेषोऽपि करुणा मुदिता सुमनस्कता // AR. VIII. 29. 3 V. supra, p. 5 2, n. 3. 4 Cf. कस्मा च चतस्सो वा ति ?.... विसुद्धिमग्गादिवसा चतस्सो, तिहादिआकारवसा पनासं / कमो, पवत्तन्ति च अप्पमाणे ता गोचरे येन तदप्पमना || Vm. Ix. 107.