________________ 426. अभिधर्मदीपे [587. प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना। तदधिकत्वा[त्] अन्यान्यपि ज्ञेयाणि (नि)। नावश्यं सम्परायसुखविहारायः(य), परिहीणोवोपपन्नः परिणि (नि)विततदभावात् / दिव्यचक्षरभिज्ञादर्शणा (ना)य समाधिभावना / ' प्रयोगजाः खलु सर्वे गुणास्त्रधातुकाणा (ना)स्रवाः प्रज्ञाप्रभेदाय समाधिभावनात् (नाः) // [587] योऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा / य*श्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना। सूत्रं चैतत्समाख्यातं बुद्धनात्मोपनायिकम् // 3 अतश्चतुर्थमेव ध्यानमुक्तमिति / / अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पावः समाप्तः // Cf. चतस्सो' 'समाधिभावना। अत्थि 'समाधिभावना भाविता बहुलीकता दिटठ. धम्मसुखविहाराय संवत्तति'""आणदस्सनपटिलाभाय "सतिसम्पजाय " आसवानं खयाय संवत्तति / Ang. II. p. 44. 1 आह / दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय संवर्तत इत्युक्तम् / न च दिव्यचक्षुरभिज्ञासमाधिभावना। अत्रोच्यते / अयं फले हेतूपचारः। यस्य हेतोः समाधिभावनाय दिव्यचक्षुरभिज्ञाफलं तत्र फले हेतूपचारः। ज्ञानदर्शनाय समाधिभावनेति / येषां पुनरयं पक्षः 'षविधा मुक्तिमार्गधीः' इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षडभिज्ञाः, तेषामचोद्यमेवैतत् / तेषां विमुक्तिमार्गाणां समाहितत्वात् / पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानामित्यवगन्तव्यम् / " Saks. p. 685. 2 Cf: वञोपमेऽन्त्ये यो ध्याने सास्त्रवक्षयभावना // AK. VIII. 28 cd. ..., 3 'प्रात्मोपनायिका किलषा भगवतो धर्मोपदेशना' इति / आत्मना उपनायिका आत्मनो देशिकेत्यर्थः / बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निष्क्रान्तो जम्बुमूले प्रथम ध्यानमुत्पादितवान् / बोधिमूले च देवपुत्रमारं भक्त्वा प्रथमे दिव्यं चक्षुरुत्पादितवान् / तेन दिव्येन चक्षुषा सत्त्वांश्च्युत्युपपत्तिसंकटस्थानभिवीक्ष्य तत् परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तीः सम्मुखीकृतवान् / तेऽस्य प्रायोगिकाः गुणाः प्रज्ञाप्रभेदाय जायन्ते / ततस्तृतीये यामे चतुर्थ ध्यानं निश्रित्य नियाममवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति / यस्माच्चैवं आत्मोपनायिका धर्मदेशना। Sakv. p. 685. See M. sutta 4. 4V. supra, p. 347, n. 1.