________________ 586.] अष्टमोऽध्यायः। 425 द्वयमालम्बतेऽशैक्षं शून्यतोऽनित्यतस्तथा // ' - [585] क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः / / शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधि द्वावपरसमाधी आलम्बेते। शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण / अप्रणि["हिताप्रणिहितोऽप्यशैक्षमप्रणिहितम] अनित्याकारेण / [न] दुःखतो न हेत्वादि. तोऽनास्रवस्य अतल्लक्षणत्वात्। न मार्गाकारेषणीयत्वात्। अनिमित्तानिमित्तत्वात् समाधिरशक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते। शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात् / न निरोधप्रणीतनिःसरणाकारर[III. B, 2. Fol. 150 a. ]णि(नि)त्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च / ते पुनरेते समाधयः एकादशभुवः सर्वे सास्र वा नृष्वकोपिनः // तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते / अकोप्यस्याहतः एकादशभुवश्च * सप्तसामन्तकानि हित्वाऽन्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु / . "पुनः [586] समाधिभावनाध्यानं सुखाय प्रथमं शुभम् / दर्शणा(ना)याक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः // "चतस्रः खलु समाधिभावनाः। अस्ति समाधिभावना प्रासेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते." इति विस्तरः / कुशलं खलु 1 Cf. आलम्बेते अशक्षं द्वौ शून्यतश्चाप्यनित्यतः। Ak. VII. 26 ab. 2 Cf. अनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया त्रयम् // AR VIII. 26. cd. .. 3 'न मार्गाकारर्दूषणीयत्वात्' इति / सोऽशैक्षः समाधिर्दूषयितव्यो न च मार्गाकारा दूषणरूपा इति / अतो न मार्गाकारस्तं समाधिमालम्बते / "Saks. p. 683. 4 This folio is misplaced in the sheet No. III. B. 5 Cf सास्रवा नृष्वकोप्यस्य सप्तसामन्तवजिताः। Ak. VIII. 27 ab. 6 Cf. समाधिभावना ध्यानं शुभमाद्य सुखाय हि // "दर्शनायाऽक्ष्यभिज्ञेष्टा धीभेवाय प्रयोगजाः। Ak. VIII. 27 cd. 28. ab. 7 'अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते / अस्ति "दिव्यचक्षरभिज्ञा ज्ञानदर्शनाय संवर्तते / अस्ति''प्रज्ञाप्रभेदाय संवर्तते / अस्ति... ,, आस्रवक्षयज्ञानाय संवर्तते' इति सूत्रम् / Saks. p. 684.