________________ [562. 418 अभिधर्मदीपे शास्त्रमित्युच्यते / नान्यदिति। तस्मादन्यदनाप्तवचनम् / न। वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शणा (ना)त्। प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च दे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति / तत्रेदं प्रत्युच्यते- . 1562] पारसीकादिमन्त्राणां विषोत्सद बलं क्वचित् / दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तणा(ना)त् // दृष्टं हि सामर्थ्यं पारस्वी (सी) कशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रः पापनाशोऽभ्युपगम्यते भवद्भिः, न च सर्वस्य विषयं(म) प्रशमयन्ति; तद्गतारिष्टादीनां(दिना) मरणदर्शणा (ना)त् / यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति / दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु / एवं मन्त्रा[VIII. A. 6. Fol. 148 b.]'णां विषोपशमने सामर्थ्य भवतु / मा भूत्पापविनाशन इति / / यदप्युच्यते भवद्भिः। वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवमन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति / ' यस्मात् [563] रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते / ' विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते // तद्यथौषधं विशुद्ध कोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य / तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारोऽपि मोक्षवमन्यधिक्रियते / न चतुर्वेदो रागद्वेषमोहादिदोषोश (र) रीकृतचित्तभूमिरिति / अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम् / तदिदमारभ्यते--- [564] शुद्धं चतुविधं हाण (न) भागीयादि यथाक्रमम् / / न्यूनतुल्य बलोत्कृष्टनिर्मलानुगुणं हि तत् // 2 . चविधं खल शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयम् एवमारूप्यमन्यत्र भवाग्रात् / तद्धि त्रिविधं विशेषभागीयं हित्वा / किं पुण (न)रेषां लक्षणम् ? This topic is not discussed in Akb. 2 .चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम् / Ak. VIII. 17 ab.