________________ 567.] अष्टमोऽध्यायः। . 419 [565] क्लेशस्वोपरिमस्थाननीरजस्कानुवति वा।' - यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थिति *भागोयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् / तस्मादनास्रवमुत्पद्यते। अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते ? - द्वे त्रीणि त्रीणि च द्वे वा हाणि (न)पक्ष्याद्यनन्तरम् // 2 हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हाण (न) स्थितिभागीये / स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात् / विशेष भागीयस्यापि त्रीण्य [न्य]त्र हाण (न) भागीयात् / निर्वेधभागीयानन्तरं तदेवैकमिति / / [566] व्युत्क्रान्तकसमापत्तिरर्हतोऽकोप्यधर्मणः / 3 स खल्वेषाहतोऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च / दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः / समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समा धौ वशित्वमिति / कथं पुनरियमुत्पाद्यते ? तत्प्रयोगो द्विधा भूमिर्गत्वागत्य(म्य) जिगीषया // . [567] धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् / शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम् // .. 'गत्वे'त्यनुलोममष्टौ भूमीः समापद्य / 'आगम्येति प्रतिलोमे समापद्य / 'द्विधेति सास्रवानास्रवा / 'जिगीषयेति जयं चिकीर्षन्ध'मभूम्युत्क्रमण जेतुकामः / शुद्धकादनास्रवं 'शुद्धकाच्च तृतीयं स्वं / ' 'निष्ठा' तु शुद्धादनास्रवम् / स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमायाः नात्सास्रवं तृतीयं समापद्यत / तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्याः यतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रति. लोमं च समापद्यते / एष प्रयोगो व्युत्क्रान्तसमापत्तेः / 1 Cf. क्लेशोत्पत्तिस्वभूम्यूर्वानासवानुगुणं हि तत् // AR. VIII. 17 cd. 2 Cf. द्वे त्रीणि त्रीणि चैकं च हानभागाद्यनन्तरम् / Ak. VIII. 18 ab. 3 Cf. व्युत्क्रान्तकसमापत्तिः। Ak. VIII. 19 a. 4 , गत्यागम्य द्विषा भूमिरष्टौ श्लिष्टकलचिताः // AK. VIII. 18 ab.