________________ 414 अभिधर्मदीपे [552. उक्तः प्रयोगप्रथमारूप्यः / द्वितीयोऽप्युच्यते[552] तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः / ' आकाषा (शा)नन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाघिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति / अत्रापि पश्चाच्चतु[:] स्कन्धालम्बनास्तदन्यतमस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति / तद्विक्षिप्तसंज्ञकः / / [विज्ञानानन्त्यद्वेषो च] 2 अकिञ्चन्याह्वयः पुनः॥३ स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति / अथवा नास्ति किञ्चिदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतन" मित्युच्यते। अनन्ताकारोदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते / अत एवाकिञ्चन्यायतन (नं) परमोपेक्षेत्युच्यते / यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसोऽनाभोगता संतिष्ठते / / [553] तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः / स खलु संक्षिप्तामपि विभत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्ट परिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सती नवसंज्ञं नासंज्ञमुपसम्पद्यते / अतो नैवसंज्ञानासंज्ञायतनं समापद्यते / न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम् / सर्वेषु चारूप्येषु प्रादौ तथा प्रयुक्तत्वा[त्] तत्संज्ञा व्यव(प)दिश्यते / न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति / व्याख्या. तानि मौलान्यष्टौ समापत्तिद्रव्याणि // 1 Cf. सब्बसो आकासानञ्चायतनं समतिक्क्रम्म अनन्तं विज्ञाणं ति विमाणञ्चायतनं उपसम्पज्ज विहरति / Vbh. p. 245.. 2 Added from Adv. 3 Cf. आकाशानन्यविज्ञानानन्स्याकिञ्चन्यसंज्ञकाः / ____तथाप्रयोगात् AR. VIII. 4 abc. 4Cf. सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म नत्थि किश्ची ति आकिञ्चचायतनं उपसम्पज्ज विहरति / Vbh. p. 245. 5 Cf. मान्धात्तु न संज्ञा नाप्यसंज्ञकः / Ak. VIII. 4 d. 6 सब्बसो आकिचचायतनं समतिक्कम्म नेवसज्ञानासायतनं उपसम्पज्ज विहरति / Vbh. VIII. 22 ab.