________________ 551.] अष्टमोऽध्यायः / 413 आगमस्तांवत्-"सर्वशो रूपसंज्ञानां समतिक्रमात्" इत्याविष्कृतमिदम् / ' अन्यदाप्त वचनम-"अरूपिणः सन्ति सत्त्वाः” इति / 2 ईषद्रूपत्वादरूपिणोनुदरा कन्पावदिति चेत् / न / सर्वश इत्यपदेशात्, निःसरणोक्तेश्च / उक्तं हि "रूपाणां निःसरणमारूप्याः" इति / यथा हि "यत् किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम् / "4 निरोधे खलु सर्वसंस्कृतवियोगोऽम्युपगम्यते / न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरो धित्वात् / युक्तिरपि / ' रूपाश्रयादोन्यवधूय स्वोद्वेगमुखेन तदाश्रया दस्यूपद्रुत तद्वियुक्तदेशाश्रयवत् / उक्तस्तारूप्येभ्यो रूपिरू (पू) पपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च / तत्र सभागवि. पाकहेत्वोरेव तयोरप्यस्तित्वात् कारणत्वं रूपप्रत्ययेण (न) च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात् महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शणा(ना) च्चान्योन्यहेतुत्वसिद्धिः // 5 1V. supra, p. 412. Cf. ये च.रूपूपगा सत्ता ये च अरूपायिनो। Itivuttaka, p. 87. See Milinda, p. 310. . . 3 Cf. ईषद्रूपत्वादापिङ्गलवत् / कोदृशं तावदीषद्रूपं तत्रेष्यते ? यदि कायवाक् / संवरमात्रं कथं तदभाव तत्संवरी भविष्यतः ? न चासति भूते भौतिकं युज्यते / “परिमाणाल्पत्वाच्चेत् / उदकजन्तुकेष्वप्यदृश्यरूपेषु प्रसंगः / अच्छत्वाच्चेत् / अन्तराभवरूपावचरेष्वपि प्रसंगः / "Akb. VIII. 3 ab See Sakv. p. 667. 4-4 Cf. तिस्सो निस्सरणीया धातुयो। कामानमेतं निस्सरणं यदिदं नेक्खम्म, पानमेतं निस्सरणं यदिदं प्रारूप्यं, थं खो पन किञ्चि भूतं संखतं पटिच्चसमुप्पन्न निरोधो * तस्स निस्सरणं / Digha XXXIV. 1-4. See Ang. III. p. 245. 5-5 Cf.'''कात्र युक्ति: ? आयुरूष्मणोः संस्पृष्टवचनान्नडकलापोद्वयवन्नामरूपयोरन्योन्यनिश्रितवचनात्, “विज्ञानप्रत्ययं नामरूपम्" इति वचनात्, अन्यत्र रूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् / न / संप्रधार्य तावदेतत् / यदिदमायुरूष्मणोः संसृष्टत्वमुक्तम् / किमिदं कामावचरमायुः सन्धायोक्तमाहोस्वित्सर्वमिति / यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति / यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्वं विज्ञानं नामरूपस्य प्रत्ययम् आहोस्वित् सर्व नामरूपं विज्ञानप्रत्ययमिति। यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिगतिप्रतिषेधः, किमत्र सर्वरेव तैविना तत्प्रतिषेध आहोस्वित् एकेनापीति ।'"तस्मात् / नारूप्ये रूपसद्भावः कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात् पुनरपि रूपोत्पत्तिस्ततः प्रच्युतानाम् ? रूपोत्पत्तिस्तु चित्ततः // Akb. VIII. 3 cd. See Saku. pp. 667 - 671 and LVPAK, VIII, pp. 137-143.