________________ 543.] अष्टमोऽध्यायः। यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते / ' तृष्णाया आ[स्वा. दप*]र्यायत्वात् / यत्तु न संप्रयुक्त तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयेकफलत्वात् / यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते / क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च। ततच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम् / तेन हि तत्समनन्तरातीतमास्वाद्यते / येनास्वादयति तमापन्नो यदा स्वादयति तस्माद्व्युत्थितः / 2 अन्योन्यसंसर्गादि (द्धि) तृष्णासमाध्यो म निर्वति (तिः)। तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्याना(न) नाम, [अ] न्यथा विप्रतिषिद्धं स्यात् / न हि कश्चित्तृष्णां समापद्यते, न च समाधिनाऽऽस्वादयतोति / लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते / / आसां पुनः समापत्तीनां ध्या नान्येवाङ्गवति नारूप्याः। कति पुनः कस्य ध्यानस्याङ्गानि ?3 तदिदं प्रस्तूयते[542[ अङ्गान्याचे शुभे पञ्च वितर्कश्चित्तसूक्ष्मता / प्रीतिः सुखं समाधानं क्लिष्टं सुखविवजितम् // प्रथमे तावच्छभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः / क्लिष्टे चत्वारि सुखं हित्वा / / [543] साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः / द्वितीयेऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते // 1cf. इध भिक्खवे एकच्चो पुग्गलो विविच्चेव कामेहि पठमज्झानमुपसम्पज्ज विहरति / स तदस्सादेति तं मिनकामेति तेन च वित्ति आपज्जति / Ang. II. p. 126. 2 'यदास्वादयति तस्माद्वयुत्थित' इति शुद्धकात् / 'येनास्वादयति तं समापन्न' इति / आस्वादनासंप्रयुक्तम् / Saks. p. 671. For details, see Vm. IV. 76-202 . 4 Cf. पञ्चाद्य तर्कचारी च प्रीतिसौख्यसमाधयः। Ah. VIII. 7 ab. 5 'यथा चतुरङ्गसेना' नाङ्गेभ्योऽर्थान्तरभूता। 'एवं पञ्चाङ्गध्यानं' नार्थान्तरभूतमिति स्वमतं दर्शयति / Saks. p. 671. & The angas of klishta-dhyana are given in a separate karika in Ak.. क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः / उपेक्षास्मृतिशुद्धिश्च केचित् प्रसन्ध्युपेक्षणे // Ak. VIII. 10. -केचित् पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रसब्धिर्नास्ति / तृतीयचतुर्थयोरुपेक्षा नास्ति कुशलमहाभूमिकत्वादनयोरिति / Akb. VJII. 10 d. 7 Cf. प्रोत्यादयः प्रसावश्च द्वितीयेऽङ्गचतुष्टयम् / AR. VIII. 7 cd.