________________ 406 अभिधर्मदीपे [539. अन्येऽपि खलु समापत्तिभेदास्तदन्तर्गता एवं सूत्राभिधर्मोदिता वक्ष्यन्ते / .. बुद्धबुद्धस्तु ते सर्वे तत्त्वेनायान्ति गोचरम् // भगवानेब हि [VIII. A, 4. Fol. 144 b.] सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृद्धि (त्ति)रिति / / 'त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते [539] त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः / तर्थव त्रय प्रारूप्या भवानं तु द्विधा मतम् // 2 . तत्र मौलानि तावद् ध्यानानि वैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्र वभेदात् / एवं त्रयो मौला आरूप्याः / भवाग्रं तु नास्त्यनास्रवम् / कामधातोर्भवाग्रस्य च भवमूलत्वात् / / [540] सामन्तानि द्विधा सप्त प्रथमं तु विधा मतम् / ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम / / प्रथमध्यानसामन्तं हित्वाऽन्यानि सप्त सामन्तानि द्विप्रकारान्य (ण्य). न्यत्रानास्रवात् / प्रथमध्यानसामन्तकं तु त्रिप्रकारम् / केचित्तु आस्वाद नासंप्रयुक्तं नेच्छन्ति / तद्वद् ध्यानान्तरिका विधेति वर्तते। यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति / / किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते[541] प्रास्वादवत्सतष्णं यच्छद्धकं लौकिकं मतम् / अदो (धो ?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् // " 9 The Kosakara here deals with the Arupa-dhyana. (Ak. VIII. 2-4.) v.infra, Adv. karikas 551-553. 2 Cf. इति मौलं समापत्तिद्रव्यमष्टविघं त्रिषा। सप्तास्वादनवच्छद्धानात्रवाण्यष्टमं द्विधा // Ab. VIII. 5. 3 [भवाग्रं] अनास्रवं नास्तीति संज्ञामांद्यात् / Sakv. p. 671. 4 समान्तकं समीपस्थम् / Saky. p. 57. 5 Cf. आस्वादनासंप्रयुक्त सतृष्णं लौकिकं शुभम् / शुद्धकं तत्तदास्वाद्य लोकोत्तरमनास्रवम् // Ak. VIII. 6..