________________ 405 538.] अष्टमोऽध्यायः। ___ समाधिस्वभावं खलु परमार्थेण (न) ध्यानम्' / सपरिवारं तु गृह्यमानं(णं) पञ्चस्कन्धस्वभावम् / भक्तिकल्पनया तत्सहभूष्वपि] धर्मेषु ताच्छब्धम् // [535] संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा / प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति / द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम् // द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि // तत्र तावत् / [536] सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा। [चतुः पञ्चेषु स्कन्धेषु][त] दुक्तेर्वर्गवृत्तितः // . पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्ति: प्रज्ञाप्यते / चतु[:]पञ्चेष्वारूप्यसमापत्तिरिति / / [537] भेदेन तु समापत्तिद्रव्यानि (णि) दश सप्त च / सामन्तकैः सहाष्टाभिानान्तरिकयापि च / / अष्टाणां (नां) खलु समापत्तिभूमीनामष्टाणा (ना)मेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता। एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह... [538]. तद्भेदाः खल्विमेऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः। . 1 ध्यानमिति कोऽर्थः ? घ्यायन्त्यनेनेति / प्रजानन्तीत्यर्थः। चिन्तनार्थो हि एष धातुः। चिन्तनं च प्रज्ञेति सिद्धान्तः। एवं तहि सर्वसमाधिध्यानप्रसङ्गः ? न, प्रकर्षयुक्त तन्नामविधानाद्भास्करवत् / कश्च प्रकर्षयुक्तः / योऽङ्गसमायुक्तः समाधिः / ""Akb VIII. 1. See Sakv. pp. 664-5. आरम्मपनिज्झानतो पच्चनीकझापनतो वा झानं / Vm. IV. - 119. On jhana and samadhi, see PTSD. 2 झानं ति चत्तारि झानानि / पठमं झानं दुतियं 'ततिय""चतुत्थं झानं / Vbh. p 342. 3 The Ms. is erazed here. 4 Cf. विचारप्रीतिसुखवत् पूर्वपूर्वांगवजितम् / / तथाऽरूप्याश्चतुःस्कन्धा अधोभूमिविवेकजाः // Ab. VIII. 2.