________________ 408 अभिधर्मदीपे [544.. द्वितीये कुशले ध्याने चत्वार्यङ्गानि। आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा / / [544] तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः।' क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम् // तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्च / क्लिष्टे . "तु द्वे 'समाधिदनासुखम् // [545] अन्ये(न्त्ये) चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च। क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्ग वेदना स्थितिः // चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि / अदुःखासुखावेदना उपेक्षा च . स्मृतिपरिशुद्धिः समाधिश्च / क्लिष्टे तु द्वे वेदना स्थितिश्च / / कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ? [546] द्रव्यात्मना दशकं च नाम्ना त्वष्टौ दशैव च / 3 अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः / / द्रव्यतः खल्वेकादश भवन्ति / प्रथमे ध्यानाङ्गानि पञ्च। द्वितीयेऽध्यात्मसंप्रसादो वर्धते। तृतीये समाधिवानि वर्धन्ते। चतुर्थे त्वदुःखासुखावेदनेति। ननु च यत् तृतोये ध्याने सुखमुक्त [तथा] प्रथमद्वितीययोः .. [Folio 1 cf. तृतीये पञ्च तूपेक्षा स्मृति: प्रज्ञा सुखं स्थितिः। Ak. VIII. 8 ab. 2 Cf. चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः। AK. VIII. 8 cd. 3 Cf द्रव्यतो वश चकं च / Ak. VIII. 9 a. 4v. supra, p. 52, n. 3. 5 The topic under discussion is :-कस्माद् तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ? यस्मात्तत् वेदना सुखम् / ध्यानयोस्तु प्रस्रग्धिसुखमाद्ययोः / प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रग्धिसुखमित्युक्तम् / इह प्रसम्धिसुखं तत्र वेदनासुखमिति कुत एतत् / द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् / नहि तत्तयोः कायिकं युज्यते / समापन्नस्य विज्ञानकायायोगात् / नापि चैतसिकं प्रीतिवचनात् / प्रीतिर्हि सौमनस्यम् / न च सुखसौमनस्ययोर्योगपद्यमस्ति / न चापि तयोः पर्यायेण ध्याने वृत्तियुक्ता पञ्चाङ्गवचनादिति / अपरे पुनराहुः-नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु कायिकमेव