________________ अभिधर्मदीपे _ [525. यच्च सूत्रेऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं' द्विविधं गतिश्च निर्माणं च / गतिरपि त्रिविधा। तत्र 1525] मनोमयी गति[:] शास्तरिच्छामात्रप्रवत्तितः। __ अधिमोक्षकृताऽन्येषां ततो देहाभिवाहिनी // मनोजवाः खलु ऋद्धिर्बुद्धस्यैव / म नस इव जवस्तस्याः। यावता कालेन चक्षविज्ञानं नीलं प्रतिपद्यते यावता कालेन भगवाञ्च्छरीरेण सर्वलोकान्तराणि व्याप्नोत्यनन्तद्धिशरीरा हि बुद्धा. भगवन्तो [5]नाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य / श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा। प्राधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते / वाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति / व्याख्यातं समाधिफलम् / / गमनं निर्माणमिदानीं वक्तव्म् / त[द] द्विविधं कामावचरं रूपावचरं च / तत्र तावत्1526] रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते / रूपस्पशौं मतौ रूपे स्वे शरीरेऽथ वा बहिः // कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते / नान्यदीश्वरकतत्ववादाभ्युपगमप्रसंगात् / रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात् / तत्पुनरेतत् स्वशरीरे परशरोरे च द्रष्टव्यम् / एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम् / इत्यष्ट[विधं निर्माणम् / [कि खलु निर्माणम] भिज्ञया निर्मीयते ? किं तहि ?, 1 "कतमादस इद्धियो ? .."अधिटाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, आणविफ्फारा इद्धि, समाधिविफ्कारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुचवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्टेन इद्धी" ति-Patisambhida, vol. HI. p. 205. 2 Cf. शास्तुमनोजवाऽन्येषां वाहिन्यप्याधिमोक्षिकी। Ak. VII. 48 cd. 3 V. supra, p. 3. 8 See LVPAK. VII. p. 113, n. 2. 5 Cf. कामाप्तं निर्मितं बाह्य चतुरायतनं द्विधा / रूपाप्तं द्वे तु AK. VII. 49. 6 See rogasutra, IV. 4-5