________________ 401 529.]. सप्तमोऽध्यायः। ___ [527] अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश / ' प्राद्यध्यानफलं वे ते (ते)रूलभूम्येकवृद्धितः / / प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च / / कथं पुननिर्माणचित्तानि लभ्यन्ते ? [528] 'तल्लाभो ध्यानव[त्] ज्ञेयः यथा खलु ध्यानानि वैराग्यत उपपत्तित: प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि। . कथं पुनस्तदुत्पद्यते ? शुद्धकाच्च स्वतश्च तत् / शुद्धकाद् ध्यानादनन्तरं णि(नि)र्मान(ण)चित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः / ततः खल्वपि, निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पपद्यते नान्यत् / सर्वस्य च निर्मितस्य स्वभूमेनैव निर्माणमप (घ) रेणापि भाषणम् // 3 न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते / भाषणं तु स्वभौमेनाप (ध) रभौमेन च / कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्य(ष)ते / ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसंमुत्थापकचित्तसद्भावात् // किं पुनर्निर्मितनिर्मात्रोः क्रमेन (ण) वाग्भाषणं भवत्यथ युगपत् ? तदुच्यते-- [529] निर्मात्रैव सहैतेषां भाषणं सुगतादृते / 1 Cf. निर्माणचित्तस्तानि चतुर्दश। Ak. VII. 49 d. 2 Cf, यथाक्रमं ध्यानफलं द्वे यावत्पञ्च नोर्ध्वजम् / तल्लाभो ध्यानवच्छवात् तास्वतश्च ततोऽपि ते // Ak. VII. 50. 3 Cf. स्वभूमिकेन निर्माणं भाषणं त्वधरेण च / AR. VI. 51 ab. . 4 Cf. नित्रिव सहाशास्तुः। Ak. VII. 51 c, 25