________________ 398 अभिधर्मदीपे [523. यद्यपि च तिस्रोऽप्यशैक्षास्तथापि 'एका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्। अन्त्या वाऽशैक्षी स्वभावतः सन्तानतश्च / आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते / ' कति पुनरासां प्रातिहार्याणि ? 2 [523] रि(ऋ) द्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् / हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् // ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः। अनुशासनाप्रतिहार्य मारेभ्योऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति // का पुनरियमृद्धिः ? [524] समाधिर (धी) द्धिरित्युक्ता फलमैश्वर्यष्टधा।" द्वितद्गतिनिर्माणे त्रिविधा गतिरिष्यते // आस्रवक्षयाभिज्ञया 'अपरान्तसंमोहम्'। नापरमस्माद्भवं प्रजानामीति तेषां व्याख्यानकाराणामभिप्रायः। अतीतः प्रत्युत्पन्नोऽनागतोऽध्वेत्यध्वानुक्रमः / तस्मादेवमर्थगतिरिति / आचार्यसंघभद्रस्तु व्याचष्टे-'पूर्वान्तादो निवर्तनात्'।' पूर्वेनिवासाभिज्ञा हि पूर्वान्तसंमोहं व्यावर्तयति / अपरान्तसंमोहं च्युत्युपपादाभिज्ञा। मध्यसंमोहं, आस्रवक्षयाभिज्ञा / इत्यतस्तिसृणामेव विद्यात्वम् / पूर्वयाऽत्मपरविपद्दर्शनात् संवेगोत्पत्तेः। परया परेषामेव / तथा संविग्नस्य भूतार्थावगमात् तृतीयेति / किमत्र प्रतिपत्तव्यम् ? आचार्यसंघभद्रव्याख्यानमेव युक्तरूपं पश्यामः / प्राचार्यस्यापि तथैवाभिप्रायो लक्ष्यते / तथा हि पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षाक्रियास्तिस्र इत्युक्त्वा आह-- 'एते हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्त यथाक्रमम्' इति / Sakv. pp. 657.8. 1Cf. अशक्षान्त्या तवाख्ये द्वे तत्सन्तानसमुद्भवात् / इष्टे शैक्ष्यस्य नोक्ते तु विद्य साविद्यसन्ततेः // Cf. Ak. VII. 4. 2 विनेयमनसामादितो अत्यर्थं हरणात् प्रातिहार्याणि प्रतिशब्दयोरादिकर्मभृशार्थत्वात् / प्रतिहतमध्यस्थानं मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा। Akb. VII. 47. See Vm XII. 84. तोणि पाटिहारियानि / इद्धिपाटिहारियं, प्रादेसनापाटिहारियं, अनुसासनिपाटिहारियं / Digha XXXIII. 1-10 See Kevaldhasutta, Dighu, VI. 3 Cf. आद्या तृतीया षष्ठी च प्रतिहार्याणि शासनम् / ___अनयमव्यभिचारित्वाद्धितेष्टफलयोजनात् // Ak. VII. 47. 4 v. supra, p. 359, n. 2. 5 Cf. केयमृद्धिः? वैभाषिकनयेन ऋद्धिः समाधिर्गमनं निर्माणं च गतिस्त्रिधा। Ak. VII. 48 ab.