________________ 522. ] . सप्तमोऽध्यायः / 397 कुशलादिभेदेन तु * [521] दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः।' दिव्यश्रोत्रचक्षषी किलाव्याकृते / तच्च न। अभिज्ञानां विमुक्तिमार्गस्वभा[व्याच्चक्षुःश्रोत्रविज्ञानयोश्चा] विकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः। चतुर्ष ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव . चक्षुःश्रोत्रं संमुखीभावं गच्छति / यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाऽभिज्ञेति / कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते अभिज्ञाफलताऽभिज्ञा [मनोविज्ञानप्रज्ञया] // अभिज्ञाफलमा (म)त्राभिज्ञाशब्देनोक्तम् / मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाऽभिजानातीति / सेवाभिज्ञा निरूपकत्वात् / / कति पुनरासां विद्या ? [522) तिस्रो विद्या मतास्त्र्यध्वस (सं) मोहादिव्युवस्तये। एका स्वभावतोऽशक्षी द्वे त्वशैक्षाश्रयोदयात् // ' पूर्वणि (नि)वासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षा[त्] त्क्रियास्तिस्रः खल्वशेक्ष्यो [विद्या उच्यन्ते / कस्मादेता एव ? एत] °एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते। पूर्वेनिवासाभिज्ञा [ज्ञया] पूर्वान्तसंमोहः निवर्तते / च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते / प्रास्रवक्षयाभिज्ञया मध्याध्वसंमोहः / 1 Cf..अव्याकृते श्रोत्रचक्षुरभिजे इतरे शुभाः। Ak, VII. 45 ab. p See abhinna, PTSD. 3 तिस्सो विज्जा। पुब्बेनिवासानुस्सतिजाणं विज्जा, सत्तानं चुतूपपातनाणं विज्जा, आसवानं खये आणं विज्जा। Digha, XXXIII. 1. 10. See Vm VII. 45. cd. 4 Cf. तिस्रो विद्या अविद्यायाः पूर्वान्तादौ निवर्तनात् / Ak. VII. 45 cd. पूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाः तिस्रः अशैक्ष्यो विद्या उच्यन्ते / एतानि हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् / Akb. VII. 45 cd. 4 This view is identical with the view of Acharya Samghabhadra as quoted and supported of Yasomitra : ___'पूर्वान्तादौ निवर्तनात' यावद्यथाक्रममिति / भगवद्विशेषादयस्तावदाहुः-'पूर्वान्तसम्मोह' पूर्वे निवासानुस्मृत्या निवर्तयति'। चुत्युपपादाभिज्ञया 'मध्यसंमोहम्' /