________________ 396 अभिधर्मदीपे [518. [518] चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः / सर्वानवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश // ' चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा। चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्ग[संवतिपर] चित्तज्ञानानि / आस्रवक्षयज्ञानसाक्षाक्रियाऽभिज्ञा षड्ज्ञाना[VIII. B, 3. Fol. 143 a.]'नि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा 'अथवा दशे'ति / / [519] षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु / / आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु / शेषा मौलीषु चतसृषु ध्यानभूष्विति / ___ यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः / / 3 सर्वाः [अभिज्ञाः] यत्नतो लभ्यन्ते वैराग्य तश्च / तत्रानुचिता यत्नतः / उचिता वैराग्यतः / जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते / वैशेषिक्यो यत्नतः / 'स्वभूम्यधरगोचराश्चैताः / रि(ऋ) द्धया स्वभूमि गच्छत्यप (ध)रां च भूमिम् / निर्मितनिर्माणमप्येवम् / दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधो[भूमिकं] च शब्दं शृणोति / एवं परचित्तज्ञानं पूर्वेनिवासा. नुस्मृतिज्ञानं च / च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति / / कतमा पुनरासां कति स्मृत्युपस्थानानि ? [520] स्मृत्युपस्थितयस्तिस्रश्चेतःपर्यायधीर्मता। ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः / / परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा / चित्तचैत्तालम्बना खल्वेषा। ऋद्धिश्रोत्रचक्षुरभिज्ञाः काय स्मृत्युपस्थानं रूपालम्बनत्वात् / ऋद्धिः खलु चतुर्बाह्यायतनालम्बना / दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने।। 1cf. चतनः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम् / क्षयाभिज्ञा बले यद्वत् AR. VII. 43. abc. 2 Cf. पञ्च ध्यानचतुष्टये // Ak. VII. 43 d. The Kosakara discusses in detail :-पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः / कस्मादारूप्यभूमिका न सन्ति ?... Akb. VII. 43 d. See LVPAK. VII. pp. 102-3. 3 Cf. स्वाधोभूविषयाः लम्या उचितास्तु विरागतः। Ak. VII. 44 ab. 4 Cf. तृतीया त्रीण्युपस्थानान्याद्य श्रोत्रद्विचक्षुषि // Ah. VII. 44 cd.