________________ सप्तमाध्याये चतुर्थपादः। पथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः / त इम उच्यन्ते[515] रि(ऋ) द्धौ श्रोत्रेऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये / ____ ज्ञानसाक्षा त्क्रियाऽभिज्ञा षड्वा धी[:] मुक्तिवम नि / ' ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताऽभिज्ञेत्युच्यते / केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते। रि(ऋ)द्धिपाददिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साऽभिज्ञा / अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा / कस्मात्पुनर्विमुक्तिमार्गा ये (9) वाभिज्ञा श्रामन्य (ण्य)फलवत् [[न] आनन्तर्य]मार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादहतश्चास्र'वक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात् // आसां पुनः - 1 Cf. ऋद्धिश्रोत्रमन पूर्वजन्मच्युत्युदयक्षये। ज्ञानं साक्षात्क्रियाभिज्ञा षडविधा मुक्तिमार्गधीः // Ak. VII. 42. . . षडभिज्ञाः। ऋद्धिविषयज्ञानसाक्षास्क्रिया, दिव्यश्रोत्रचेतःपर्यायपूर्वेनिवासच्युत्युपपाद-आस्रवक्षयज्ञानसाक्षाक्रियाऽभिज्ञाः / Saks. p. 654. Yasomitra gives full detaiis. _Cf. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेज्जप्पत्ते इद्धिविधाय चित्तं अभिनीहरति""सो अनेकविहितं इद्धिविर्ष पच्चनुभोति ।"सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति, दिब्बे च मानुसे च, ये दूरे सन्ति के च ।"चेतोपरियजाणाय चित्तं अभिनीहरति... सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति ।"पुब्बेनिवासानुस्सतित्राणाय चित्तं अभिनीहरतिसो अनेकविहितं पुब्बेनिवासं अनुस्सरति ।""चुतूपपातजाणाय चित्तं अभिनीहरति "" / आसवानं खयााणाय चित्तं अभिनीहरति / ""Digha, II. 87-97. See M. sutta 6 ; Vm. Chapters XII and XIII. 2 श्रामण्यफलवदिति / यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावम् / तद्वत् / Saky. p. 655.