________________ 392 अभिधर्मदीपे 1509. श्रावकसाधारणा उच्यन्ते[509] अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः। .. अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः / / [510] इतरैरपि सामान्या अप्रमादादयो गुणाः / एषां यथोपदिष्टाणां(नां) शृणु वक्ष्यामि लक्षणम् / / तत्र तावत् / [511[ प्ररणा संवृतिज्ञानं नृजाऽन्त्यध्याननिश्रयात् / ' प्रार्यसन्तानिका जाता सवस्तुकमलेक्षिणी // इह कश्चिदहन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति-कथं नाम परेऽपि [इ]मे सन्तानालम्बनाद् क्लेशान् नोत्पा[VIII. A, 2. Fol. 142. b.]'दयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः / चतुथं ध्यानं विवृद्धिकाष्ठागतं समापद्य तथा करोति यथाऽस्य चारविहारगतस्य सन्ताने न कश्चित्क्लेशमुत्पादयति // [512] प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु। अकोप्यधर्मनो(णो) ख्याते तथैव प्रतिसंविदः // प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अहंद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात् // 1 Cf. शिष्यसाधारणा अन्ये धर्माः केचित् पृथग्जनः। . ___अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः // AK. VII. 35. 2 Cf. संवृतिज्ञानमरणा ध्यानेऽन्त्येऽकोप्यधर्मणः / नृजाऽनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः // AR. VII. 36. The difference between the arana samadhi of Buddha and sravaka is in Aaa:-श्रावकस्यारणादृष्टेर्नक्लेशपरिहारिता। तत् क्लेशस्रोत उच्छित्त्यै प्रामादिषु जिनारणा // Aaa. p. 524.. See LVPAK. VII. p. 87. 3 Cf. तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत्तथा। AK. VII. 37 db. Also cf. अनाभोगमनासङ्गमव्याघातं सदा स्थितम् / सर्वप्रश्नापन्नुद्वौद्धं प्रणिधिज्ञानमिष्यते // Aag. p. 524. 4 सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः / आरूप्यास्तु न साक्षात् प्रणिधिज्ञानेन ज्ञायन्ते / कि तर्हि ? निष्पन्नचरितविशेषात् / कर्षकनिदर्शनं चात्रेति. बंभाषिकाः / प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानम् 'ARb. VII. 37 ab. See Saks. p. 651. .