________________ 508.] .. सप्तमोऽध्यायः / . [507] श्रोतसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः / ' संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा / / शुश्रूषकाशुश्रूषकादिभेदाद्विनेयाणां (नां) विध्येन व्यवस्थानम् / शुश्रषकादिवर्गत्रयाभिसन्धेः। स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि श्रीणि स्मृत्युपस्थानानि / स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाना(णा)शुश्रषमान (ण)तदुभययुक्तषु विनेयसमूहेषु नानन्दो भवत्याघातो वा // महाकरुणा पुनः [508] संवृतिज्ञानरूपत्वाद्दीर्घकालानु" सारतः / सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा // यदा श्रावकस्यापि करुणा विद्यते प्रत्येकबुद्धस्यापि कस्माद् बुद्धस्यैव महाकृपेत्युच्यते ?3 गस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महा पुरुष [लक्षण] विद्योतितशरीराध्यासिनी दशवलपरिगृहोता च / तस्माद् बुद्धस्यैव भगवतो महायुपेत्युच्यते / उक्ता असाधारणगुणाः // 5 1 Cf. स्मृतिप्रज्ञात्मकं त्रयम् / Ak. VII. 32 d. . . 2 Cf. महाकृपा संवतिधीः संभाराकारगोचरः / समत्वादधिमात्राच्च नानाकरणमष्टधा // Ak. VII. 33. 3 करुणामहारुणयोः किं नानाकरणम् ? "स्वभावतोऽद्वेषामोहस्वभावत्वात् / आकारत एक िदुःखताकारत्वात् / पालम्बनत एकत्रिधात्वालम्बनत्वात्। भूमितश्चतुर्थध्यानभूमिकत्वात् / सन्तानतः श्रवकादिबुद्धसन्तानजत्वात् / लाभतः कामधातुभवानवैराग्यलभ्यत्वात् / अपरित्राणपरित्राणतः। अतुल्यतुल्यकरुणायनाच्च / Akb. VII, 33 d. See Sakv. pp. 648-9; LVPAK. VII. p. 77. . 4 कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ? सवासनप्रहागात् / अथवा यस्य श्रावकाः तस्य... Akb. VII. 32 d.-सवासनानां आनन्द्यादीनां प्रहाणात् / का पुनरियं वासना नाम श्रावकाणाम् ? यो हि यत्क्लेशचरितः पूर्वं तस्य तत्कृतः कायवागचेष्टाविकार हेतुसामर्थ्यविशेषश्चित्ते वासनेत्युच्यते / अव्याकृतश्चित्तविशेषो वासनेति भदन्तानन्तवर्मा। अथवेति विस्तरेणाचार्यः। Saks. p. 6+7. 4 The Kosakara discusses one more point: सम्भारधर्मकायाभ्यां जगतश्चार्थचर्यया। समता सर्वबुद्धानां नायुर्जातिप्रमाणतः // Ak. VII. 34. ' Adv. might have discussed this topic in Third Adhyaya, which is lost. V. supra, p. 115, n. 1,