________________ 386 अभिधर्मदोपे [498. [498] यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम / प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम् // ' स्वपरसन्ता/VIII. A, 1. Fol b.] निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाकोऽयममुष्यस्वप्ननिमित्तध्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति / यथा खलु भव्यार्थसूचकानि(न्) स्वप्नाननेकशो दृष्ट्वा तांश्चार्थाः नभिनिष्पन्नात्(न्) प्रायशः सदृशानपेक्ष (क्ष्य) निश्चयो भवति तद्वदिति / यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति / तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता। किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्वलं संवृतिज्ञानात्मकमेव // [499] सत्त्वानां च्युतिसम्भूत्यो नमन्याध्ववृत्ति यत् / . .. तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते // दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरिताबतरणज्ञानपरप्रत्ययो भवति / प्रत्युत्पन्न विषयमप्येवम् / तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते / तदेतत्संवृतिज्ञानात्मकमेव / / [500[ प्रास्रवक्षयधीसंशं षड्ज्ञानान्यथवा दश / अत इदानीं भगवतो विनेयकायं किमवशिष्टम् ? आस्रवक्षयः। तस्मिन्य ज्ज्ञानं यस्य यदा यरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित् / अतोऽस्यैव तद्वलं नान्यस्य / तत्पुनरेतत् पज्ञानस्वभावं दशात्मकं वा / यद्यास्रवक्षये ज्ञानम्, षड़ 1 तत्थ कतमं तथागतस्स पुब्बेनिवासानुस्सति जाणं ? इध तथागतो पुब्बेनिवासं अनुस्सरति, एक पि जाति "पे जातिसतसहस्सं पि, अनेके पि संवट्टकप्पे अनेके पि विवटकप्पे अनेके पि संवट्टविवट्टकप्पे "Vbh. p. 343. 2 Cf. तत्थ कतमं तथागतस्स सत्तानं चुतूपपातं यथाभूतं आणं ? इध तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते 'यथाकम् पगे पजानाति * Vbh. p. 344. 3 Cf. तत्थ कतमं तथागतस्स आसवानां खये यथाभूतं नाणं? इध तथागतो आसवानं खया अनासवं चेतोविमुत्ति पञआविमुत्ति दिठेव धम्मे अभिआ सच्छिकत्वा उपसम्पञ्च विहरत * Ibid. 4 'यदि निरोधज्ञानमेवास्रवक्षयज्ञानम्' इति / आस्रवानं क्षये निरोधे ज्ञानम् / आस्रवनिरोधालम्बनमित्यर्थः। एवं सति षड् ज्ञानानि भवन्ति / निरोधज्ञानजातिरेव धर्मज्ञानादिभेदिनीकृत्वा / Saku. p. 644.