________________ सप्तमाध्याय द्वितीयपादः। इदमिदानीं वक्तव्यम् / कस्यां भूमो कस्यां वावस्थायां कस्य वा पुद्गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते[487] त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि / मौलघ्यानप्रयोगे च ज्ञेयानागतभावना / / [488] बाल स्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा। प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः // . बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमलोत्पादने च प्रयोगविमुक्तिमार्गे च संवतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या॥ आर्य*स्य तु [489] शान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे। दर्श (न) मार्ग खल यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते / नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात् / ....... सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये // ' संवतिज्ञानं खलु दर्शण (न) मार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वय. ज्ञानाख्येषु भापते। न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः // कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते -- [490] समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः / 1cf. यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने / अनागतानि तत्रैव सांवृतं चन्वयागमे || Ab. VIl. 20. 2 Cf. न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् / Akb. VII. 20.-न हि तदानीं रूपारूप्यावचरं दुखं परिज्ञातं समुदयः प्रहीणः तन्निरोधः साक्षात्कृत इति / Saks. p. 633.