________________ 378 अभिधर्मदीपे [486. कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम् / अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवा[:] संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम् / परि(र)चित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव / दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः / निरोधज्ञानस्यैको[s]संस्कृतमेव कुशलम् / मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च / क्षयानुत्पादज्ञानयोर्नव धर्मा विषयोऽसंस्कृतमव्याकृतं मुक्त्वा / / / "इदमिदानी वक्तव्यम् / कः कतिभिमा॑नः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव / अयं तु नियमः [486] दृङमार्गे प्रथमे ज्ञाने त्रिभिआनः समन्वितः / द्वितीयक्षणे त्रिभिः संवतिज्ञानदुःखज्ञानधर्मज्ञानैः / चतुर्वेककवृद्धयोवं विरक्तो [VII. A. 8. Fol. 139. b.] 1ऽन्यमनो धिया।' अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते। त[द्यथा] दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते / समुदयधर्मज्ञाने समुदयज्ञानम्। निरोधधमज्ञाने निरोधधर्मज्ञानम्। मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते / समुदयनिरोधमार्गान्व[यज्ञा] नेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः। सर्वत्र तु वीतरागस्य पर'. चित्तज्ञानं वर्धत इति वाच्यम् / / अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः // सूत्रात् / "इहास्माकं भो गौतम उपस्थानशालायां संनिषण्णानां संनिपतितानां एवंरूपान्तराकथासमुदाहारोऽभूत् / श्रमणो गौतम किलवमाह / नास्ति स कश्चिच्छ्रमणो वा ब्राह्मणो वा यः सकृत् सर्व जानीयात् सर्व पश्येदिति / तथ्यमिदं भो गौतम स्मरामि भवतोऽहं एवं वक्तुम् / अपि तु नास्ति स कश्चिच्छ्रमणो वा ब्राह्मणो वा यः सकृत् सर्व ज्ञास्यति वा द्रक्ष्यति afa", Sako. pp. 630-1. For details, see LVPAK. VII. pp. 45-47, notes. For an allied controversy, see Kr. V. 9.-इदानि पच्चप्पन्नबाणकथा नाम होति / तत्थ येसं 'सब्बसंखारेसु अनिच्चतो दिठेसु तं पि आणं अनिच्चतो दिह्र होती'ति वचनं निस्साय अविसेसेन सब्बस्मि पच्चुप्पन्ने आणं अत्थीति लद्धि सेय्यथापि अन्धकानं / Ko A. V. 9. Also see Kv. V. 8. 1 Cf. एकज्ञानान्वितो रागी प्रथमेऽनानवे क्षणे। द्वितीये त्रिभिरुव॑स्तु चनुककवृद्धिमान् // Ab. VII. 19. .