________________ 485.] सप्तमोऽध्यायः / 377 मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम्। मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा। धर्मज्ञानस्यान्व यज्ञानम्। अन्वयज्ञानस्य धर्मज्ञानम् / दुःखहेतुधियो· द्वे दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परि (र) चित्तज्ञानमालम्बनम् / चतुर्णां दश संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वान्ये (ण्ये)व दशज्ञानान्यालम्बनम् / नापरम // ' निरोधज्ञानं खलु नैव ज्ञानालम्बनम् // पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम् / कथम् ? तदुच्यते[485] पञ्चधर्मास्त्रिधात्वाप्तान मार्गरूपान् सनातनान् / व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम् // त्रैधातुकान् धर्मात् (न्) प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च३, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्त विप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधा कृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति / ... तत्र तावत्संवतिज्ञानस्य सर्व एव दशधर्मा विषयः / ' धर्मज्ञानस्य पञ्च 1Cf. नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम् / ___चतुर्णा दश नकस्य योज्या धर्माः पुनर्दश // Ak. VII. 17. . 2 Cf. धातुकामला धर्मा अकृताश्च द्विधा द्विधा / AR. VII. 18 ab. 3 संप्रयुक्ताश्चित्तचत्ता इति / विप्रयुक्ताः प्राप्त्यादयः। Saks. p. 630. 4 कुशलाव्याकृतभेदादिति / कुशलं प्रतिसंख्या-निरोधः परमक्षेमत्वात् / अव्याकृ. तावाकाशाप्रतिसंख्यानिरोधाविति / Ibid. . 5 The Kosakara discusses this point in detail : स्यादेकेन ज्ञानेन सर्वधर्मान जानीयात् ? न स्यात् / अपि तु सांवृतं स्वकलापान्यदेकं विद्यावनात्मत:। 'वृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्मतो जानीयात् सर्वधर्मा. अनात्मान इति / स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः। तेषामग्रहणं विषयविषयिभेदादेवालम्बनत्वादिति / सन्निकृष्टत्वाच्च / तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयं भावनामयम् / तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् / अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् / Akb. VII. 18 cd. -स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् / न स्यात् इति / कथं गम्यते ?