________________ अभिधर्मदीपे [490 यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवतिज्ञानानि प्रतिपक्षः। तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम् / अतोऽभिसमया त्याख्यं तत्त्रिसत्यान्तलामतः // ' ___ अत एव तदाभिसमयान्तिकं संवतिज्ञानमित्याख्यायते। धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति। तच्चेतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते। कस्मात्पुनस्त नुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्ति'प्रतिबद्धतात् / दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम्। तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति / 3 तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च / उक्ता दर्शनमार्गभावना / 1f. अतोऽभिसमयान्त्याख्यम् / Ak. VJI, 21 a. अत एव तदभिसमयान्तिक संवृतिज्ञानमाख्यायते / एकैक सत्याभिसमयान्ते भावनात् / कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति ? मागंसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वात्, अकृत्स्नाभिसमयाच्च / कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोव: साक्षात्कतुं न तु मार्गः शक्यते कृत्स्नी भावयितुम् / इत्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते / 'दर्शनमार्गपरिवारत्वादित्यपरे। तदिदं साध्यत्वादज्ञापकम् / Akb. VII. 21 a.-दर्शनमार्गपरिवारस्वादिति / दर्शनमार्गस्य परिवारः संवृतिज्ञानम् / अतः सत्यत्रयान्ते एव दर्शनमार्गो भाव्यते / न मार्गसत्यान्ते तस्य भावनामार्गत्वात् / साध्यत्वादशापकम् इति / साध्यमिदं दर्शनमार्गपरिवार एव / न भावनामार्गपरिवारोऽपीति / वयं हि भावनामार्गपरिवारोऽपि तदिति ब्रूमः / Sakv. p. 633. 2 Cf. किं पुनस्तदाभिसमयान्तिक संवृतिज्ञानं कदाचित्संमुखी क्रियते ? न कदाचित् / एकान्तेन हि तदनु पत्तिधर्मकम् / AK. VII. 21 b. __ 3-3 Cf. कथं पुनस्तद्भावितं भवति ? अलब्धलाभात् / कथमिदानीं तत्प्रतिलब्धं यदि नैव समुखोकर्तुं शक्यते ? प्राप्तितः। यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वेषा निर्देश जातिः / तस्मान्नैवं भावना सिध्यति / एवन्तु सिध्यति यदाहुः पूर्वाचार्याः / कथं च पूर्वाचार्या आहः ? लोकोत्तरो मार्गसामर्थ्यात् संवृतिज्ञानं भाव्यते। यद् व्युत्थितः सत्यालम्बनं विशिष्टतरं लौकिकज्ञानं संमुखीकरोति। एष एव च तस्य लाभो यत्तत् सम्मुखीभावसमर्थाअयलाभः / गोत्रे हि लब्धे लब्धं गौत्रिकं भवति / एवन्तु नेच्छन्ति वैभाषिकाः। Akb. VII. 21 b.-'"एतदुक्तं भवति / तत्सम्मुखीभावसमर्थाश्रयलाभे तदपि तेनाश्रयेणोत्पद्यमानं लब्धं भवतीति / अथ कस्मादेवं नेच्छन्ति वैभाषिकाः ? दर्शनमार्गलम्यं तत् / तस्य कथं भावनामार्गे सम्मुखीभावो भविष्यतोति / दर्शनमार्गे चोत्पत्त्यनवकाशोऽस्यास्ति तदनुत्पत्तिधर्मकमिति वर्णयन्ते / Saks. pp. 633-4. See LVPAK. VII. pp. 50-52. 4 Cf. कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते ? दर्शनमार्गस्य / स्वापोभूमिनिरोधोऽन्त्यं स्वसत्याकारं यात्निकम् / AK. VII. 21 cd.