________________ 372 अभिधर्मदीपे [474.. अशुभसंज्ञा मरणसंज्ञा सर्वलोकेऽनभिरतिसंज्ञा। मार्गप्रयोगस्तिसू. भिराभिरुक्तः। चतसृभिश्च मार्गोऽनित्यदुःखशून्यानात्मसंज्ञाभिः / प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति / / कति पुनरासां सास्रवाः कत्यनास्रवाः ? [474] त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः। समला निर्मलास्त्वन्या बोध्या नव भुवो[5] मलाः // अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः। शेषास्तु सासवानास्रवाः, नवभूमिका आ (अ) [ना] स्रवा अवबोद्धव्याः // [475] भूमिध्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् / .. ___चतुर्थी पञ्चमी षष्ठी विद्या[त्] सप्तसु भूमिषु // अभिधर्मदीपे विभाषाप्रभाणं वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः // समाप्तश्च षष्ठोऽध्यायः //