________________ सप्तमोऽध्यायः प्रथमः पादः। अत्राह। भगवतोक्तस्त्रिस्कन्धोऽयं *मार्गः। तत्र शीलस्कन्धः कर्माध्याये' विस्तरेण व्याख्यातः। समाधिस्कन्धोऽष्टमेऽध्याये व्याख्यायिष्यते / प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः / सोऽयमारभ्य[476] लोकोऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुयति / तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः // कानि पुनस्तानि कियन्ति वेति ? तदुच्यते-- [477] जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया / तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः / / जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम् / तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश३ भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः / / तत्र तावत्[478] धर्मान्वयविशेष्ये द्वे दुःखाद्यश्च चतुष्टयम् / द्वे संवत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम् // 9 Fourth Adhyaya. 2 The Patisambhida-magga (Vol. I. pp. 1-3.) enumerates Seventy-three Wanas:-इमानि तेसत्तति आणानि, इमेसं तेसत्ततिया आणानं सत्तसडिजाणानि सावकसासाधारणानि, छ बाणानि असधारणानि सावकेहि""| The Vibhanga enumerates several kinds of nanas. See nanavibhanga, Vbh. pp. 306-344 and VbhA. pp. 396-465. ___3 दस ज्ञानानि / धर्मज्ञानं अन्वयज्ञानं संवृतिज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च / Aam. p. 89. 4 धर्मज्ञानं कतमत् / कामधातुप्रतिसंयुक्तसर्वसंस्कारदुःखे "समुदये निरोधे "मार्ग ""अनास्रवज्ञानं "इत्युच्यते धर्मज्ञानम् / अन्वयज्ञानं कतमत् / रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारदुःखे "मार्गेऽनास्रवज्ञानं ""इत्युच्यते ज्ञानम् / Ibid. V. supra, p. 335, n. 3.