________________ 473.] षष्ठोऽध्यायः / 371 [472] दुःखहेत्ववलम्बिन्या योगी निविद्यते धिया / विरज्यते तु संरक्तस्ततः कोटिचतुष्टयो / ' दुःखसमुदयक्षान्तिभिः तज्ज्ञानश्च निविद्यते, नान्यैः। विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानविरज्यते यैः क्लेशान् प्रजहाति / एवं चतुष्कोटिको भवति / तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्य प्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते / भावनामार्गेपि प्रयोगविमुक्तिविशेषा[त्] मार्गसंगहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निविद्धवस्त्वालम्बनत्वात्तु निविद्यते / द्वितीयो (या) कोटि:-विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामनिरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानस्त्रधातुकाद्वैराग्यं गच्छन्न निर्विद्यते। प्रामोद्यवस्त्वालम्बनत्वादुभयम् / वीतरागः कामेभ्यो नियाममवक्रामन दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानस्त्रधातुकाद्वैराग्यं गच्छन् / नोभयम्-कामवीतरागो नियाममवक्रामनिरोधमार्गधर्मज्ञानक्षान्तिभ्यां [ VII. A. 7. Fol. 137 b. ]'तद्धर्मज्ञानाम्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम् // . य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः / / विस्तरेण तु [473] संज्ञा अनित्यसंज्ञाद्या दश ताभ्योऽशुभादयः। तिस्रो मार्गविधिर्मार्ग[श्चत] स्रोऽन्त्यास्त्रयी फलम् // 1 Cf. निविद्यते दुःखहेतुक्षान्तिज्ञानविरज्यते / सर्जहाति यैरेवं चतुष्कोटिकसंभवः // Ak. VI. 79. (This is the last karika of the Sixth Kosa-sthana.) * This topic is not discussed in Akb. 3 Cf. दस इमे भिक्खवे सा ""आमतपरियोसाना / "असुभसञ्जा, मरणसञ्चा, आहारे पटिक्कूलसञ्जा, सब्बलोके अनभिरतिसा, अनिच्चसा, अनिच्चे दुक्खसञ्जा, दुक्खे अनत्तसा , पहानसा , विरागसजा, निरोधसञ्ज्ञा | Ang. V. p. 105.