________________ 370 अभिधर्मदीपे . [469. [469] धर्मव्यापारतो लोके धर्म्यपि व्याव(प) तो मतः। औषण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते। अग्निना काष्ठं दग्धमित्यग्निदहनव्यापारे *च देवदत्तेन दग्धोस्मीत्युपचर्यते। तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षरशैक्ष इत्युच्यते। मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम् // ' 'तु'शब्दाग्निरुध्यमान एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात् सामोपपत्तेः // अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः,२ "तें ततः किमन्येऽथानन्ये ? ब्रूमः[470] विमुक्ति[:] शाश्वती यैव सा विरागादयस्त्रयः / प्राख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया // प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम् / कथम् ? [471] विरागो रागनिर्मोक्षः प्रहाणाख्योऽन्यसंक्षयः / , .. निरोधधातुरन्यस्य सोपादानस्य वस्तुनः // 3 रागप्रहाणं खलु विरागधातुरित्युच्यते / तदन्येषां क्लेशोपक्लेष (शा) णां (नां) प्रहाणधातुः। तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते // येण(न) वस्तुना निर्विद्यते विरज्यतेऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्नः / कथम् ? 1cf. निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् / Ak. VI. 77 cd. 2 त्रयः साफल्येन धातवः / प्रहाणधातुः वैराग्यधातुः निरोधधातुः / जहाति रागसंयोजनं सर्वानन्यक्लेशानिति प्रहाणधातुः / रागसंयोजनप्रहाणमुच्यते वैराग्यधातुः / सर्वान्यधर्मप्रहाणं नाम निरोधधातुः / Aan. p. 129. On nirodhadhatu, see Digha, XXXIII. 1. 10. 3 Cf. प्रसंस्कृतव धात्वाख्या विरागो रागसंक्षयः / प्रहाणघातुरन्येषां निरोधात्यस्तु वस्तुनः / AR. VI. 78. .