________________ 467.] षष्ठोऽध्यायः। 367 [464] मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलना[त्] स्वयम् / __बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः // द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौन (ण)श्च / तत्राद्यो बुद्धक(का)रका बुद्ध स्याशैक्षा धर्माः। गौन (ण)स्तु तदाधारेपि शरीरे तत्फलभूतेषु चाष्टादशस्वावेणिकेषु बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम् // ' - [465] शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य पाकरः / तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः // उक्तं हि सूत्रे-"कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहाते शैक्षा अशैक्षाश्च / 3 तत्राष्टादश शैक्षाः नव शैक्षाः।"४ इति विस्तरः॥ [466] शीलानां यत्त वैमल्यं तत्प्रसादस्तथैव तु / कति पुनरेषां द्रव्यतः कति नामतः ? . द्रव्यतो द्वयमेवेतन्नामतस्तु चतुष्टयम् / / " श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः / यद्धि निर्मलं तत् प्रसन्नमित्युच्यते // इदमिदानी वाच्यम् / अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या चाष्टाभिरङ्गः समन्वागत: शैक्षः प्रातिपद इत्युक्तं दशभिरहन् क्षीणास्रव इति ? तदुच्यते [467] शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्णा ( )ङ्गमिष्यते / ' 1.v supra, p. 125, notes. .2 v. supra, p. 126. 3 Cf. कति नु खो भन्ते लोके दक्खिणेय्या कत्थ च दानं दातब्ब ति ? खो गहपति लोके दक्खिणेय्या सेखो च असेखो च / Ang. I. p. 63. 4v. supra, p. 126, n. 2. 5 Cf. मार्गश्च द्रव्यतस्तु द्वे श्रद्धाशीलं च निर्मलाः। Ab. VI. 75 ab. 6-6 Cf. सूत्र उक्तम् --"अष्टाभिरङ्गैः समन्वागतः शैक्षो दशभिरङ्गः समन्वागतोऽशैक्षः” इति / कस्माच्छैक्षस्य सम्यक् विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ? Akb. VI. 75 cd. अष्टाभिरिति ।""कतमैरष्टाभिः ? शैक्ष्या सम्यग्दृष्ट्या यावच्छेक्षेण सम्यक्समाधिनेति / दशभिरङ्गः ''कतमैदर्शभिः ? अशैक्ष्या सम्यग्दृष्टया यावदशैक्षण सम्यक्समाधिना अशैक्ष्या सम्यग् विमुक्त्या अशैक्षेण च सम्यग् ज्ञानेनेति / Saks. p. 606. . 7 Cf. नोक्ता विमुक्ति: शेक्षाङ्ग बद्धत्वात् सा पुनद्विधा / AK. VI. 75 cd.