________________ अभिधर्मदीपे [461. न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इन्द्रियान्तरविवृद्धितत्प्रथ[VII. A, 6. Fol. 136 b.]'मता तासु खल्वेतासु चतसृषु तत्प्र[५] मतासु[461] अष्टानां नीरजस्कानां मार्गाङ्गाणा(नां) यथायथम् / तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ / बोधिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भोऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य 'लाभ: ? तदिदं निर्दिश्यते[462] त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः / मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि // 2 दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः / कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये। धर्ममात्रमिदं सर्व द्वादशायतनमात्रमित्यर्थः / नात्र कश्चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते / न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति / एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः। तद्विनिरोधं समागच्छतो द्रष्टव्यम् / मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्के च। सद्भूतमा ख्यिायी भगवान्मार्गज्ञो मार्गदेशिक[:] / येपि च तं मार्ग प्रतिपन्नाः श्रावका: शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्ध्याशयसा (?) च बोधिसत्त्वसिंहा: दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्वयाकारश्रद्धास्वरूपः / सोऽयं विस्तरेणोच्यते / / स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्च मार्गः / / कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते[463] बौद्धात्सङ्गादते मार्गाद्या श्रद्धा सत्यगोचरा / ___धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः / / 1cf. बुद्ध""धम्मे""सङघे"अवेच्चप्पसादेन समन्नागतो होति / S. II. p. 69. See Ang. II, p. 57. 2 Cf. त्रिसत्यदर्शने शीलधर्मावत्यप्रसादयोः / ___ लाभो मार्गाभिसमये बुद्ध तत्सङ्घयोरपि // Ak. VI. 73 cd, 74 ab. 3 v. supra, p. 196, n. 3. 4 Cf. धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः। Ab. 74 cd. V. supra, p. 126, n, 1.