________________ 460.] षष्ठोऽध्यायः। 365 "अधिगतो मे पौराणो मार्गः" इति वचनात् / शास्त्रे तु बोध्यङ्गोपरि ये पठ्यन्ते सम्यग्दृष्ट्यादयो धर्मास्तेऽनास्रवा इति // कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ? [458] आये ध्यानेऽखिला मौलेऽनागम्ये प्रोत्यपाकृताः / द्वितीयेऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते // [459] शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु / बोध्यङ्गेभ्य" श्च सर्वा (३)भ्यो कामे बोध्यङ्गवर्जिताः / / तत्र तावन्मौले ध्याने सर्वेपि सप्तत(त्रि) शबोधिपक्ष्या विद्यन्ते / अनागम्ये तु प्रीतिवर्जिताः। तत्र प्रीतेरभावात् / वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः। द्वितीये तु ध्याने संकल्पवजिताः सर्वे विद्यन्ते / तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवाः पञ्चत्रिंशत्। 'च'शब्दाद् ध्यानान्तरेपि पञ्चत्रिंशत् संकल्पप्रीतिवजिताः। त्रिष्वारूप्येषु सम्यग्वाक्कान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च। भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गजिताः पञ्चविंशतिः। कामधातावपि बोध्यङ्गवजितास्त्रिशद्विद्यन्त इति / ये पुनरणा (ना) स्रवाण्येवं मार्गाङ्गानीच्छन्ति तेषां तैरपि वजिताः शेषा बोधिपक्ष्या विद्यन्त इति / गतमेतत् / / ___इदं तु वक्तव्यम् / बोधिप (पा)क्षिकाधिकारे- . [460] यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदः / न्यामावकान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु / / 1Cf. अधिगतो खो म्यायं धम्मो गम्भीरो"Vinaya. I. p.3.' 2 See Aam. p. 117. 3 Cf. सकलाः प्रथमे ध्यानेऽनागम्ये प्रीति जिताः। AR. VI. 71cd. 4-4 Cf. द्वितीयेऽन्यत्र संकल्पाद् द्वयोस्तद् द्वयवजिताः / ध्यानान्तरश्च शोलांगैस्ताभ्यां च त्रिष्वरूपिषु // AR. VI. 72. 5 Cf. लौकिका अपि हि सम्यग्दृष्टयादयः सन्ति / ते तु नार्यमार्गशब्दं लभन्ते / Akb. VI. 71 ab. Also Cf. तत्र सप्त बोध्यंगान्यनास्रवाणि / षड् विभाज्याः / ते सास्रवा वा अनास्रवा वा। अपर आह। सप्त बोध्यंगानि पार्यमार्गश्चेति साकल्येन अनास्रवाणि / अन्ये शिष्टा द्विधा विभाज्याः। Aam. p. 113. i & This topic is not disscussed in Akb.