________________ 364 अभिधर्मदीपे चत्वारः खल्वार्यवंशाः' ह्रयपत्राप्ये च / नवप्रवजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्यात्(क्ष्याः) / ना(ना)प्रमादः पराङ्गत्वान्नाविहिंसाऽविहेठनात् // वीर्यभाण्डागारिकः खल्वप्रमादः। अविहिंसा च विहेठनामात्रप्रतिपक्षत्वानोक्ता // [455] सत्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः / / धर्माधिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः / मार्गाङ्गाक्षकदेशत्वान्नाप्यवेत्यप्रसत्तयः // अवेत्यप्रसादाः खलु मार्गाङ्गेकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनबर्बोधिपक्ष्येषताः। [456] नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः / सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः / तस्मान्न बोधिपक्ष्यः / *प्रौदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः // निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः। परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावा(वो) बोधेबहिरङ्गभावाद्विप्रकृष्यते / तस्मात् सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः॥ कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते[457] बोध्यङ्गान्यरजस्का नि बोधि (धे)नेदिष्टभावतः। तदन्यान्यवबोध्यानि समलान्यमलान्यपि // 3 बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि। तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाना (णा)शयाश्च / बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते / उक्तं हि भगवता 1cf. चत्तारो मे भिक्खवे अरियवंसा अग्गा "इध"भिक्खु सन्तुट्ठो होति इतरीतरेन चीवरेन""पिण्डपातेन""सेनासनेन। पुन च परं भिक्खवे भिक्खु भावनारामो होति भावनारतो"| Ang. II. pp. 27-28. V. infra, Adv. karika 588. 3 Cf. अनास्त्रवाणि बोध्यङ्गमार्गाङ्गानि विषेतरे। Ab. VI. 21 ab. .