________________ 454.] षष्ठोऽध्यायः। पितम् ? संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु ण (न) व्यवस्थाप्यन्ते ?' तदिदमनुवर्ण्यते [451] न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात् / राजस्थानीयं खलु चित्तं तद्बोधिपक्ष्यधर्मविशोध्य मोक्षसुखमुपलभ्यते / यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति / यथोक्तम्-"चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते / चित्तव्यवदानहेतोश्च विशुद्ध्यन्ते / "2 तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम् / __व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते // प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः // [452]. "विपाकफलनिम्नत्वान्मार्गोक्तश्च न चेतना। चेतना खल्विष्टानिष्टविपाकनिर्वर्तण(न)त्वात् मार्गशब्देनाभिधानाच्च नोच्यते। नाप्राधान्यान्मनस्कारो विद्याऽविद्याप्रवर्तणा(ना)त् / / मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याऽविद्याप्रवर्तणा(न) च्च / / [453] क्रियारम्भप्रधानत्वान (न)च्छन्दो वीर्यबृहणात् / छन्दः [VII. B. 6. Fol. 136 a.]. खलु कर्तुकामतारूपः क्रियारम्भः 'प्रभाव्यते / वीर्य चानुबृहयति / तद्वीर्य बोधिप्रतिलम्भकर्तव्यतापरिसमाप्ते. रूवं यावदनुवर्तते। - नाधिमोक्षः समारोपान स्पर्शो दौर्विभाव्यतः // प्रायेण खल्वधिमोक्षोऽधिमुक्तमनस्कारेषु वर्तते / स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्ते१रवधारवृत्तिः / तस्मान्नोक्तः / / [454] नार्यवंश हयपत्राप्यार्यो(-प्या) [अ]विशारदवृत्तितः / 9 This point (Ad. karikas 451--456) is not discussed in Akb. V. supra, p. 50, n. 2. 2V. supra, p. 46, n. 1.