________________ 362 अभिधर्मदीपे धिगच्छति। याणि (नि) चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति / __ संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः // . . अङ्गतेति वर्तते। सम्यक्संकल्पसम्यग्वाक्कन्तिाजीवानां सम्यग्दष्टिसम्यग्व्यायामसम्यक्स्मृतिसम्यक्समाधीनामिव मार्गानुकूल्यादङ्गत्वम् / / अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः[449] विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः / समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगोऽयम् // [450] प्राधान्यं सप्तवर्गस्य प्राग (र)म्भोष्मगतादिषु। .. अत्र पुनः यथाक्रम विबोद्धव्यं भावनादृष्टिमार्गयोः / / ' . तत्र स्मृत्युपस्थानान्यादिमिकावस्थाप्रभावितानि कायादिस्वभावो. पलक्षणात्। सम्यक्प्रहाणान्यूष्मगतेषु। तत्र संसारणि (नि)णियोरादीनवानुशंसदर्श ने बलवद्वीर्याश्रयणात् संसारपारमुत्तरति / मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद् गुणधनदरिद्रो भवति। इन्द्रियाणि षा(क्षा)न्तिष्वपायात्यन्त निवृत्ती तदाधिपत्यात् / बलान्यत्र (ग्र)धर्मेषु क्लेशानवमर्दनीयत्वात्। बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावण(न)या निरवशेषक्लेशप्रहाणात् / नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात्। दर्शण (न)मार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु वैधातुकातिक्रमनो(णो)त्पादा[त् / आ] नुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात् // अथ कस्माच्चतसिकधर्ममिभूतं चित्तं 'बोधिपक्ष्येषु ण (न] व्यवस्था 1cf. प्रादिमिकनिर्वेधभागीयेषु प्रभाविताः / भावने दर्शने चैव सप्त वर्गा यथाक्रमम् // Ak. VI. 70. . 2 Cf. बोध्यासन्नत्वात् भावनामार्गे बोध्यंगानि / गमनप्रभावितत्वाद्दर्शनमार्गे मार्गागानि ।'"तत्र धर्मप्रविचयसंबोध्यंगं बोधिर्बोध्यंगं च सम्यग्दृष्टिर्मार्गो मार्गगं चेति वैभाषिकाः / Ab. VI. 70. ____3 the Kosakara deals with this point in detail:."अपरे पुनरभित्त्वैव क्रम बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति'"Akb. VI. 70.-'अपरे पुनराहुः' इत्याचार्यः ।""यथा वैभाषिकभिन्नः क्रमः, तथा तमभित्त्वा बोधिपक्षाणामानुपूर्वी वर्णयन्ति / "'Sakv..p. 603.