________________ 448.] षष्ठोऽध्यायः / 361 प्रज्ञेन्द्रियम् / यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम् / ' एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिण: (नः) क्लेश संग्रामावतीर्णाः (र्णस्य) क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्बलानी. त्युच्यन्ते / / .[447] बोधनार्थेन निदिष्टं शास्त्रा बोध्यङ्गसप्तकम् / __ प्रतीत्यादि (-त्या) परमार्थेण (न) प्रज्ञेत्यन्तमनुग्रहात् // 3 समानेपि बोधिपाक्षिकत्वे विशेषेणते सप्तधर्मा बोध्यङ्गानि भवन्ति / भावनामार्गे खल्वे तेषां प्राधान्यं दृष्टसत्यस्था [न]त एव। धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम् / ह्लादः प्रस्रब्धिः। रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्क. प्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा [VII. A. 5. Fol. 135 b.] द्यत् कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः। उपेक्षा" नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्त. समतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते। अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृता[वशे]षाणि चत्वारि पूर्वमेव व्याख्यातानि। तेषां पुनः सप्तानां बुद्धि धर्मप्रविचयलक्षणा बोधिश्च बोध्यत च / ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव / / तेषामपि च [448] प्रोतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता / निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिम ? For the difference between prajna and prajna-indriya, see. Kv A, XIX. 8. V. supra, p. 54, n. 4. 2 परित्तानि भवन्तीन्द्रियाणि महान्ति भवन्ति बलानि / Aaa. p. 115. 3 सत्त बोझंगा-सति-धम्मविचय-विरिय-पोति-पस्सद्धि-समाधि-उपेक्खासम्बोझंगो। Vbh. p. 227. 4 v. supra, p. 72, n., 1. - 5 v. supra, p. 72, n. 2. 6 cf. तत्र धर्मप्रविचयसंबोध्यङ्ग बोधिः, बोध्यङ्गं च, सम्यग्दृष्टिांगों मार्गङ्गश्चेति वंभाषिकाः। Akb. VI. 70.