________________ 360 अभिधर्मदीपे [446. तिकृत्वेन्द्रियाणि / यथा पृथिवीश्वराणां पट्टादीनि लिङ्गानि भवन्ति यः पृथिवी. श्वरोयमिति प्रज्ञायते / यथा च पृथिवीश्वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्वराणामार्यधनसमद्धानां च श्रद्धादीनि विष्कम्भितपहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति / ___ तत्र तावच्छद्धायाः स्वलक्षणं' बुद्धधर्मसङ्घान् सम्भावयतश्चित्तं प्रसादमुपयाति सद्भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते। प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात् कर्मफलादिषु तत्र संभावना भवति / तथा च संभावयतो यश्चेतसः प्रसादः सा श्रद्धा नाम धर्मश्चित्तेन संप्रयुक्तः। यदा(थाss)दर्शादी धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात् प्राधान्यात् सन्तानानुवृत्तेश्च चित्तव्यपदेशः / वीर्यं णा(ना)म चेतसोप्यु(म्यु)त्साहलक्षणं प्रयोजन (ने) वार्थिशक्यतां संभाव्य विविधमोर्यत इति वीर्यम् / 3 स्मतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम् / चेतस एकाग्रलक्षणं समाधीन्द्रियम् / 5. विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते। विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति / यथा खलु विद्रुतजवनाश्वारूढः पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादोनां न शक्नोति व्यक्ति मुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति / यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति / तस्मात् कुड्य इव रङ्गस्य श्लेषः समाधिरालम्बने चित्तस्याधारः। प्रजेन्द्रिसं यत् स्वसा" मान्यलक्षणमुपलक्षयति / यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्लष्टमिव पृष्ठे(ष्ठ इ)व च लक्षयति सोपलक्षणात् 9 The Kosakara does not give the definitions in detail. 2V. supra, p. 71, n. 4. 3 v. supra, p. 73, n. 3. 4V. supra, p. 69, n, 4. 5 V. supra, p. 70. 6 V. supra; p. 7), p. 3.